SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ सू० २।२] अभावविचारः १८९ दर्शनस्य पैरार्थत्वादित्यस्मिन्नभिधास्यते । प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ॥४॥ गेहाच्चैत्रबहिर्भावसिद्धिर्या त्विंह दर्शिता । तामभावोत्थितामन्यामापत्तिमुदाहरेत् ॥ ५॥" [मी० श्लो० अर्था० श्लो० ४-९] इत्यादि। ५ तथाऽभावप्रमाणमपि प्रमाणान्तरम् । तद्धि निषेध्याचारवस्तु. ग्रहणादिसामग्रीतस्त्रिप्रेकारमुत्पन्नं सत् क्वचितप्रदेशादौ घटादीना मभावं विभावयति । उक्तं च "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम्। मानसं नास्तिताज्ञानं जायतेऽक्षोनपेक्षया ॥ [मी० श्लो० अभाव० श्लो० २७] "प्रत्यक्षादेनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥". [मी० श्लो० अभाव० श्लो० ११] "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते। वस्तुसत्तावबोधार्थ तत्राभावप्रमाणता ॥" [मी० श्लो० अभाव० श्लो० १] इति । न चाध्यक्षेणाभावोऽवसीयते; तस्याभावविषयत्वविरोधात्, भावांशेनैवेन्द्रियाणां सम्बन्धात् । तदुक्तम् "न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः। भावांशेनैव सम्बन्धो योग्यत्वादिन्द्रियस्य हि ॥" [मी० श्लो० अभाव० १८] इति । नाप्यनुमानेनोसौ साध्यते; हेतोरभावात् । न च विषयभूतस्या - १ अभिधानान्यथासिद्धेरिति यदुक्तं तत्समर्थनीयमित्युक्त आह । २ उच्चारणस्य । ३ शिष्यार्थत्वात् । ४ स्वग्रन्यापेक्षयाग्रे वक्ष्यमाणग्रन्थे। ५ अर्थापत्तिनिरूपणप्रस्तावे। ६ प्रमाणपञ्चकाद्भिन्नाम् । ७ भाष्यकारः। ८ घटादि । ९ शुद्धभूतल । १. निषेध्यस्मरणमुपलब्धिलक्षणप्राप्तस्य घटादेरनुपलम्भश्च । ११ अभावप्रमाणसामप्रीतः। १२ त्रिप्रकारमित्येतत्पदं प्रत्यक्षेत्यादिनाऽऽह । १३ भूतले। १४ आदि. पदेन काले। १५ बाह्यन्द्रियानपेक्षया। १६ स्वरूपम् । १७ प्रमाणपञ्चकरूपलेनाभावप्रमाणस्य । १८ प्रसज्यप्रतिषेधोत्र। १९ जीवस्य प्रमाणपञ्चकरूपतया । २० स्वरूपम्। २१ पर्युदासोत्र। २२ भुवि । घटांशलक्षणे । २३ घटांशास्तिखावबोधार्थम् । २४ अनुमानापेक्षया। २५ कारणादेः प्रागभावादिना विभागः कृतः। अभाव इति वा। २६ पदार्थस्य । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy