________________
प्रमेयकमलमार्त्तण्डे
[ २. प्रत्यक्षपरि०
देशाद्देशान्तरप्राप्त्या सूर्ये गमनमेनुमीयते ततस्तच्छत्तिसम्बन्ध इति । श्रुतार्थापत्तिर्यथा - 'पीनो देवदत्तो दिवा न भुङ्क्ते' इति वाक्यश्रवणाद्वात्रिभोजनप्रतिपत्तिः । उपमानार्थापत्तिर्यथा - गवयोपमि - तया गोस्तज्ज्ञानग्राह्यताशक्तिः। अर्थापत्तिपूर्विकाऽर्थापत्तिर्यथा५ शब्देऽर्थापत्तिप्रबोधिताद्वाचकसामर्थ्यादभिधानसिध्यर्थे तन्नित्यत्वज्ञानम् । शब्दाद्ध्यर्थः प्रतीयते, ततो वाचकसामर्थ्य, ततोपि तन्नित्यत्वमिति । अभावपूर्विकाऽर्थापत्तिर्यथा - प्रमाणाभावप्रमितचैत्राभावविशेषिताद्नेहाञ्चैत्र बहिर्भावसिद्धिः, 'जीवंश्चैत्रोऽन्यत्रास्ति गृहे अभावात्' इति । तदुक्तम्
१०
१५
२०
१८८
"तंत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । वह्नेरनुमितात्सूर्ये यानात्तच्छक्तियोगिता ॥ १ ॥” [ मी० श्लो० अर्था० लो० ३] "पीनो दिवा न भुङ्गे चेत्येवमादिवचः श्रुतौ । रात्रिभोजन विज्ञानं श्रुतार्थापत्तिरुच्यते ॥ २ ॥ " [मी० लो० अर्था० लो० ५१] " गवयोपमिताया गोस्तैज्ज्ञानग्राह्यशक्तता । अभिधानप्रसिद्ध्यर्थमर्थापत्त्यावबोधितात् ॥ १ ॥ शब्दे वाचकसामर्थ्यात्तन्नित्यत्वप्रमेयता । अभिधानान्यथाऽसिद्धेरिति वाचकशक्तता ॥ २ ॥ अर्थापत्त्यावगम्यैव तदन्यत्वंगेतेः पुनः । अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः ॥ ३॥
१ आदित्यो गमनशक्तियुक्तो गतिमवान्यथानुपपत्तेः । गतिमानादित्यो देशाद्देशान्तरप्राप्तेः, बाणादिवत् । २ सूर्यो गमनशक्तियुक्तो गतिमत्वान्यथानुपपत्तेः । ३ आगम । ४ देवदत्तो रात्रौ भुङ्क्ते पीनत्वे सति दिवाभोजनाभावश्रवणान्यथानुपपत्तेः । ५ गौरुपमानज्ञानग्राह्यताशक्तियुक्ता उपमेयत्वान्यथानुपपत्तेः । ६ उच्चारण ७ शब्दो नित्यो वाचकसामर्थ्यान्यथा ( नित्यत्वं विना ) ऽनुपपत्तेः । अस्यार्थापत्तिपूर्व कवं निरूप्यते । शब्दो वाचकशक्तियुक्तः ततोऽर्थप्रतीत्यन्यथा ( वाचकशक्ति विना )Sनुपपत्तेः । ८ शब्द । ९ अभावप्रमाण । १० ता । ११ भा । १२ विशेषण | १३ अर्थापत्तिषु मध्ये । १४ सत्याम् । १५ उपमान । १६ यसः । १७ अभिधानसिद्ध्यर्थं तन्नित्यत्वप्रमेयता स्यात् । १८ नियत्वं विना । १९ वाचकशक्तता अर्थापत्त्यवगम्या न भविष्यति अतश्चार्थापत्तिपूर्विकार्यापत्तिः कथं स्यादित्युक्त आह । २० अतीन्द्रियत्वात् । २१ शक्ततायाः सकाशादन्यत्वं भिन्नत्वं नित्यत्वस्य । २२ परिशानात् । २३ ययैवार्थापत्त्या वाचकशक्ततावगम्यते तथैव शब्दनित्यत्त्वं प्रतीयते इति कृतार्थापत्तिपूर्वि कार्थापत्तेर्वैयर्थ्यमित्युक्ते आह ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org