________________
सू० २।२] । अर्थापत्तिविचारः १८७
"न चैतस्यानुमानत्वं पक्षधर्माद्यसम्भवात् । प्राक्प्रमेयस्य सादृश्यं धर्मित्वेन न गृह्यते ॥१॥ गवये गुंह्यमाणं च न गवार्थानुमापकम् । प्रतिज्ञार्थंकदेशत्वाद्गोगतस्य न लिङ्गता ॥२॥ गेवयश्चाप्यसम्बन्धान गोर्लिङ्गत्वमृच्छति । सादृश्यं न च सर्वेण पूर्व दृष्टं तदन्वयि ॥३॥ एकस्मिन्नपि दृष्टथै द्वितीयं पश्यतो वने। सादृश्येन सहैवामिस्तदैवोत्पद्यते मतिः॥४॥"
[मी० श्लो० उपमानपरि० श्लो० ४३-४६] इति । तथार्थापतिरपि प्रमाणान्तरम् । तल्लक्षणं हि-“अर्थापत्तिरपि १० दृष्टःQतो वार्थोन्यथा नोपपद्यते इत्यदृष्टार्थ कल्पना"।[शाबरभा० २११५] कुमारिलोप्येतदेव भाष्यकारवचो व्याचष्टे ।
"प्रमाणषकविज्ञातो यँत्रार्थोऽनन्यथा भवन् । अंदृष्टं कल्पयेदैन्यं सार्थापत्तिरुदाहृता ॥"
[ मी० श्लो० अर्था० परि० श्लो० १] १५ 4त्यक्षादिभिः षड्भिः प्रमाणैः प्रसिद्धो योर्थः स येन विना नोपपद्यते तस्यार्थस्य कल्पनमापत्तिः। तत्र प्रत्यक्षपूर्विकार्थापत्तिर्यथाग्नेः प्रत्यक्षेण प्रतिपन्नाद्दौहाद्दहनशक्तियोगोऽर्थापत्त्या प्रकल्प्यते। न हि शक्तिः प्रत्यक्षेण परिच्छेद्या; अतीन्द्रियत्वात् । प्यनुमानेन; अस्य प्रत्यक्षावगतप्रतिबन्धलिङ्गप्रभवत्वेनाभ्युपगमात्, अर्थाप-२० त्तिगोचरस्य चार्थस्य कदाचिदप्यध्यक्षागोचरत्वात् । अनुमानपू. विका त्वर्थापत्तिर्यथा सूर्ये गमनात्तच्छक्तियोगिता । अत्र हि
१ मादिशब्देन सपक्षे सत्त्वम्। २ अनुमानकालात्पूर्वम् । ३ हेतुः। ४ पक्षधर्मत्वेन सादृश्यम् । ५ तर्हि गवयो हेतुर्भविष्यतीत्युक्ते आह । ६ गवार्थेन । ७ पक्षधर्मत्वं नास्ति चेन्मा भूदन्वयो भविष्यतीत्युक्त आह । ८ पुंसा। ९ हेतूपन्यासापूर्वम् । १० प्रमेयेण । ११ उक्तार्थोपसंहारमाह । १२ गोलक्षणे । १३ गवयम् । १४ पक्षधर्मत्वग्रहणं विना साध्यसाधनसम्बन्धस्मरणं च विना कोर्थो गवयदर्शनकाल एव । १५ शाब्दोपमाने यथा प्रमाणान्तरे भवतः। १६ सामर्थ्यात्प्राप्ता । १७ उच्यते । १८ पुनः। १९ प्रत्यक्षादिप्रमाणमात्रगम्यः । २० आगमे । २१ अदृष्टार्थ विना। २२ उपरि वृष्टिलक्षण। २३ आपादनम् । .२४ बुद्धौ । २५ नदीपूरादिः। २६ अदृष्टार्थे सत्येव भवन्नित्यर्थः । २७ उपरि वृष्टिलक्षणम् । २८ पूरादन्यम् । २९ कारिकां भावयति । ३० वृष्टेः। ३१ अर्थापत्तिषु मध्ये । ३२ स्फोटात् । ३३ अग्निदहनशक्तियुक्तः दाहान्यथानुपपत्तरिति। ३४ आत्मादिवत्। ३५ भा । ३६ शक्तिलक्षणस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org