________________
१७२ प्रमेयकमलमार्चण्डे [प्रथमपरि०
संवादज्ञानं किं पूर्वज्ञानविषयं तदविषयं वा; इत्याद्यप्यसमीक्षिताभिधानम् ने खलु संवादज्ञानं तदाहित्वेनास्य प्रामाण्यं व्यवस्थापयति । किं तर्हि ? तत्कार्यविशेषत्वेनाश्यादिकमिव धूमादिकम् ।
सर्वप्राणभृतां प्रामाण्ये सन्देहविपर्ययासिद्धेश्च; इत्यप्ययुक्तम् । ५प्रेक्षापूर्वकारिणो हि प्रमाणाप्रमाणचिन्तायामधिक्रियन्ते नेतरे। ते
च कासाश्चिदज्ञा(श्चिज्ज्ञा)नव्यक्तीनां विसंवाददर्शनाजाताशङ्काः कथं ज्ञानमात्रात् 'अयमित्थमेवार्थः' इति निश्चिन्वन्ति प्रामाण्यं वास्य ? अन्यथैषां प्रेक्षावत्तैव हीयेत । - प्रमाणे बाधककारणदोषज्ञानाभावात्प्रामाण्यावसायः; इत्यप्य१० भिधानमात्रम्, तदभावो हि बाधकाग्रहणे, तदभावनिश्चये वा स्यात् ? प्रथमपक्षे भ्रान्तज्ञाने तद्भावेपि तदग्रहणं कञ्चित्कालं दृष्टम् , एवमत्रापि स्यात् । 'भ्रान्तज्ञाने कश्चित्कालमहेपि कालान्तरे बाधकग्रहणं, सम्यग्ज्ञाने तु कालान्तरेपि तदग्रहणम्'
इत्ययं विभौगः सर्वविदां नास्मादृशाम् । बाधकामावनिश्चयोपि १५सम्यग्ज्ञाने प्रवृत्तेः प्राक, उत्तरकालं वा? आद्यविकल्पे भ्रान्त
ज्ञानेपि प्रमाणत्वप्रसङ्गः । द्वितीयविकल्पे तन्निश्चयस्याकिञ्चित्करत्वं तमन्तरेणैव प्रवृत्तेरुत्पन्नत्वात् । न च बाधकामावनिश्चये किञ्चिनिमित्तमस्ति । अनुपलब्धिरस्तीति चेकिं प्राकाला,
उत्तरकाला वा? न तावत्प्राकाला; तस्याः प्रवृत्त्युत्तरकाल२०भाविबाधकोंभावनिश्चयनिमित्तत्वासम्भवात् । न हन्यकालानु.
१ पूर्वज्ञान विषयो यस्य । २ अर्थक्रियाज्ञानं। ३ क । ४ अश्यादिकं कर्मतामापन्नं यथा व्यवस्थापयति धूमादिकं कर्तृ, कुतस्तत्कार्यत्वान्न तु तद्राहकत्वादित्यर्थः । ५ कर्तृ । ६ बाधक । ७ अप्रेक्षाकारिणो नराः । ८ मरीचिकादौ । ९ किन्तु नैव । १० बाधकाभावः । ११ उभयोः। १२ सत्यजलज्ञाने। १३ उभयोः (कोट्योः)। १४ देशकालापेक्षया। १५ स्नानपानादिलक्षणायाः। १६ किञ्च । १७ कारणम् । १८ विवादापन्ने प्रमाणे बाधकं नास्ति अनुपलब्धेरिति । १९ नेदं जलमिति ।
1 "नहि संवादशानं तबाहकत्वेन तस्य प्रामाण्यं व्यवस्थापयति, किन्तु तत्कार्यविशेषत्वेन यथा धूमोऽग्निम् इति पराभ्युपगमः।" सन्मति० टी० पृ० १६ । 2 "तदभावो हि बाधकाग्रहणे, तदभावनिश्चये वा?" तत्त्वोप० लि. पृ० ३ ।
सन्मति० टी० पृ० १७ । 3 "बाधकानुपलब्धिः किं प्रवृत्तेः प्राग्भाविनी बाधकामावनिश्चयस्य प्रवृत्त्युत्तरकालभाविनो निमित्तम्, अथ प्रवृत्त्युत्तरकालभाविनी इति विकल्पद्वयम् ?"
सन्मति० टी० पृ० १७ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org