SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सू० १११३] प्रामाण्यवादः १७३ पलब्धिरन्यकालमभावनिश्चयं च विद्धात्यतिप्रसङ्गात् । नाप्युत्तरकाला, प्राक् प्रवृत्तेः 'उत्तरकालं बाधकोपलब्धिर्न भविष्यति' इत्यसर्व विदा निश्चेतुमशक्यत्वेनासिद्धत्वात् । प्रवृत्त्युत्तरकालभौविनिश्चयमात्रनिमितत्वे न किञ्चित्फलम् तस्याँकिञ्चित्करत्वात्। किञ्च, असौ सर्वसम्बन्धिनी, आत्मसम्बन्धिनी वा ? प्रथम-५ पक्षे असिद्धा; न खलु 'सर्वे प्रमातारो बाधकं नोपलभन्ते' इत्यर्वाग्दर्शिना निश्चेतुं शक्यम् । नाप्यात्मसम्बन्धिनी; तस्याः परचेतोवृत्तिविशेषैरनैकान्तिकत्वात् । तन्नानुपलब्धिर्निमित्तम्। नापि संवादोनैवस्थाप्रसङ्गात्। कारणदोषाभावेप्ययमेव न्यायः। एवं त्रिचतुरज्ञान' इत्याद्यपि स्वगृहमान्यम् ; 'कस्यचिद्विज्ञानस्य १० प्रामाण्यं पुनरप्रामाण्यं पुनः प्रमाणता' इत्यवस्थात्रयदर्शनाद्वाधके तद्बाधकादौ वावस्थात्रयमाशङ्कमानस्य परीक्षकस्य कथं नापरापेक्षा येनानवस्था न स्यात् ? _ 'आशङ्केत हि यो मोहात्' इत्याद्यपि विभीषिकामात्रम् , यतो . नाभिशापमात्रात्प्रेक्षावतां प्रेमाणमन्तरेण बाधकोशङ्का व्यावर्त्तते । १५ न चास्या व्यावर्तकं प्रमाणं भवन्मतेऽस्तीत्युक्तम् । कारणेदोषैज्ञानेपि पूर्वेण जाताशङ्कस्य तत्कारणदोषान्तरापेक्षायां कथमनवस्था न स्यात् ? तस्य तत्कारणदोषग्राहकज्ञानाभावमात्रतः प्रमाणत्वान्नानवस्था, यदाह “यदा स्वतःप्रमाणत्वं तदान्यन्नैव मुंग्यते । २० १ पूर्वेण जाताशङ्कस्य । २ बाधकस्य । ३ सम्प्रत्यत्र घटानुपलब्धिः कालान्तरेप्यत्र घटाभावं कुर्यादित्यतिप्रसङ्गात् । ४ जलादिज्ञाने। ५ बाधकामाव। ६ अनुपलम्भस्य । ७ प्रवृत्त्यर्थो हि निश्चयोऽवलोक्यते प्रवृत्तेश्च जातत्वान्निश्चयस्याकिञ्चित्करत्वम् । ८ अनुपलब्धिः। ९ किञ्चिज्जेन । १० अनुपलब्धेः। ११ लब्धुमशक्यैः । १२ बाधकामावनिश्चयं निमित्तम् । १३ अन्यथा। १४ पूर्वेण जाताशङ्कस्य संवादे संवादान्तरापेक्षणात् । १५ इदं जलं पुनरिदं जलं पुनरिदं जलम् । १६ विवक्षितस्य । १७ बाधकात् । १८ पञ्चमशानलक्षणसंवादप्रमाणम् । १९ चतुर्थशानस्य । २० प्रत्यक्षादिना प्रामाण्यग्रहणाभावे प्रामाण्ये बाधकाशङ्काव्यावर्तनस्य कर्तुमशक्यत्वात् । २१ द्वितीयविकल्पः । २२ विशानकारणनेत्रादिकम् । २३ काचकामलादि । २४ शानेन। २५ इन्द्रियाणामतीन्द्रियत्वादभावः। २६ संवादकज्ञानम्। २७ कुतः। 1"किञ्च, बाधकानुपलब्धिः सर्वसम्बन्धिनी किं तन्निश्चयहेतुः उत आत्मसम्बधिनी इति पुनरपि पक्षद्वयम् ।" सन्मति० टी० पृ० १७। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy