________________
सू० १३१३] प्रामाण्यवादः यात्तेने संवादाभावात् । कुञ्चिकाविवरस्थायां हि मणिप्रभायां मणिज्ञानम् अपर(अपवर)कान्तर्देशसम्बद्धे तु मणावर्थक्रियाज्ञानमिति भिन्नदेशार्थग्राहकत्वेन भिन्नविषययोः पूर्वोत्तरज्ञानयोः कथमविसंवादस्तिमिराद्याहितविभ्रमज्ञानवत् ? . यच्चान्यदुंक्तम्-क्वचित्कूटेपि जयतुङ्गे ज्ञानं प्रमाणं स्यात्कति-५ पयार्थक्रियादर्शनात्, तंत्र कूटे कूटज्ञानं प्रमाणमेवाऽकूटज्ञानं तु न प्रमाणं तत्संवादाभावात् । सम्पूर्णचेतनालाभो हि तस्यार्थक्रिया न कतिपयचेतनालीभ इति । । यच्चैकविषयं भिन्नविषयं वा संवौद्कमित्युक्तम् । तत्रैकाधारवर्तिरूपादीनां तादात्म्यप्रतिबन्धेनान्योन्यं व्यभिचाराभावात् ।१०. जोग्रदशारसादिज्ञानं रूपाद्यविनाभावि रसादिविषयत्वात् । भिन्नविषयत्वेप्याँशङ्कितविषयाभावस्य रूपज्ञानस्य प्रामाण्यनिश्चयात्मकम् । दृश्यते हि विभिन्नदेशाकारस्यापि वीणादे रूपविशेषदर्शने शब्दविशेषे शङ्काव्यावृत्तिः किं पुनर्ना* ? अविनाभावो हि संवाद्यसंवादकभावनिमित्तं नौन्यत् ।
१ पूर्वज्ञानस्य । २ अभूत्। ३ जनित। ४ विभ्रमशानस्य यथा मिन्नदेशसम्बन्धार्थक्रियाशानरूपसंवादान्न प्रामाण्यम् । ५ शुक्तिकादौ रजतादिज्ञानं विभ्रमः। ६ परेण । ७ द्रङ्गे । ८ दूषणमुच्यते । ९ अकूटजयतुङ्गस्य । १० अर्थ । ११ पूर्वशानस्य । १२ परेण। १३ मातु(लि)ङ्गादि । १४ सम्बन्धेन। १५ द्वितीयम् । १६ रूपरसज्ञानयोः। १७ जाग्रदशाभावि। १८ आद्यस्य जाग्रद्दशाभाविनः । १९ आद्यस्य । २० रूपादौ । २१ विभिन्न विषययोः रूपरसज्ञानयोः शङ्काव्यावृत्तिः कुत इत्युक्ते आह । २२ एकविषयत्वं भिन्नविषयत्वं वा।
1 "एकसन्तानवर्तिनो विषयद्वयस्याविनाभावादन्यालम्बनमपि ज्ञानमन्यविषयस्य शानस्य प्रामाण्यं साधयिष्यति, नहि तौ रुपस्पशी विनिर्भागेन वर्तेते एकसामग्र्यधीनत्वात् ।"
तत्त्वसं. पं० पृ० ८०२ । 2 "क्वचित्खलु समानजातीयं संवादकज्ञानं भवति, यथा देवदत्तस्य प्रथमं घटज्ञाने प्रवृत्ते यज्ञदत्तस्यापि तस्मिन्नेव घटे घटज्ञानम् । “कचित्तु भिन्नजातीयमपि, संवादकज्ञानं भवति । यथा प्रथमस्य प्रवर्तकजलज्ञानस्य उत्तरकालभाविखानपानावगाहनाद्यर्थ क्रियाशानम् ।...भवति हि एकसन्तानप्रभवम् अन्धकारकलुषितालोकप्रभवस्य कुम्भज्ञानस्य उत्तरकालभाविनिस्तिमिरालोकप्रभवं तस्मिन्नेव कुम्मे कुम्भज्ञानम् । भिन्नविषयं तु एकसन्तानप्रभवं संवादकं यथा रथाङ्गमिथुनादेकतरदर्शनस्य अन्यतरदर्शनम् ।"न खलु निखिलं भिन्नविषयं संवेदनं संवादकमिति ब्रूमः । किंतर्हि ? यत्र पूर्वोत्तरज्ञानगोचरयोः अविनाभावस्तत्रैव भिन्नविषयत्वेऽपि शानयोः संवाद्यसंवादकभाव इति ।... अविनामावो हि संवाद्यसंवादकभावनिमित्तं नान्यत् ।" स्या० रत्ना० पृ० २५३ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org