________________
-
-
-
१६८
प्रमेयकमलमार्तण्डे [प्रथमपरि० दावल्पतरबीजवपनादिना बीजाबीजनिर्धारणाय प्रवर्तन्ते, पश्चादृष्टसाधात्परिशिष्टस्य बीजाबीजतया निश्चितस्योपयोगाय परिहाराय च अभ्यस्तबीजादिविषये तु निःसंशयं प्रवर्त्तन्ते ।
यचाभ्यधायि-संवादप्रत्ययात्पूर्वस्य प्रामाण्यावगमेऽनवस्था ५तस्याप्यपरसंवादापेक्षाऽविशेषात्; तदप्यभिधानमात्रम्। तस्य संवादरूपत्वेनापरसंवादापेक्षाभावात् । प्रथमस्यापि संवादापेक्षा मा भूदित्यप्यसमीचीनम् । तस्यासंवादरूपत्वात् , अंतः संवादकद्वारेणैवास्य प्रामाण्यं निश्चीयते ।
अर्थक्रियाशानं तु साक्षादविसंवाद्यर्थक्रियालम्बनत्वान्न तथा प्रामाण्यनिश्चयभा । तेनं 'कस्यचित्तु यदीप्येत' इत्यादि प्रलापमात्रम् । न चार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशङ्कायामन्यप्रमाणापेक्षयानवस्थावतारः, । अस्यार्थाभावेऽदृष्टत्वेन निरारेकत्वात् । यथैव हिं-किं 'गुणव्यतिरिक्तेन गुणिनाऽर्थक्रिया सम्पादिता
१ परेण। २ ज्ञानस्य । ३ जैनैः। ४ संवादप्रत्ययो धी अपरसंवादापेक्षो भवतीति साध्यं प्रत्ययत्वात् । ५ प्रत्ययत्वेन । ६ जलादिज्ञानस्य । ७ पूर्वज्ञानविषये उत्तरशानस्य वृत्तिः संवादः। ८ असंवादरूपत्वं यतः। ९ प्रेक्षावद्भिः । १० संवाद । ११ स्लानपानावगाहनादि । १२ पुनः । १३ यसः (कर्मधारयसमासः)। १४ बसः। १५ अविसंवादापेक्षाप्रकारेण । १६ भवति । १७ कारणेन। १८ स्वत एव प्रमाणता । प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना। १९ अपिशब्दात्साधनज्ञानस्य ग्रहणम् । २० विद्यमानेपि स्नानादिके अविद्यमानलानादिलक्षणाऽवस्तुवृत्तिशङ्कायाम् । २१ निःसंशयत्वात् । २२ रूपस्पर्शादि । २३ योगः। निर्धार्य पश्चादृष्टसाधम्र्येणानुमानात् परिशिष्टस्य बीजाबीजतया निश्चितस्योपादानाय हानाय च यतन्ते । तदनन्तरं पुनरभ्यस्ते बीजादिगोचरे परिदृष्टसाधर्म्यादि लिङ्गनिरपेक्षा एव निःशकं कीनाशाः केदारेषु बीजवपनाय प्रवर्तन्ते ।" स्या० रत्ना० पृ० २५५ । 1 "उच्यते वस्तुसंवादः प्रामाण्यमभिधीयते । तस्य चार्थक्रियाभ्यासज्ञानादन्यन्न लक्षणम् ॥ २९५९ ॥ अर्थक्रियावभासं च ज्ञानं संवेद्यते स्फुटम् । निश्चीयते च तन्मात्रभाव्यामर्शनचेतसा ॥ २९६० ॥ अतस्तस्य स्वतः सम्यक् प्रामाण्यस्य विनिश्चयात् । नोत्तरार्थक्रियाप्राप्तिप्रत्ययः समपेक्ष्यते ॥ २९६१ ॥ ज्ञानप्रमाणभावे च तस्मिन् कार्याक्मासिनि । प्रत्यये प्रथमेप्यस्माद्धेतोः प्रामाण्यनिश्चयः॥ २९६२ ॥
-- तत्वसं० पृ० ७७८ । सन्मति० ते० पृ० १४ । 2 "यथा अर्थक्रिया किमवयवव्यतिरिक्तेन अवयविनाऽर्थेन निष्पादिता, उताव्यतिरिक्तेन, आहोखिदुभयरूपेण, अथानुभयरूपेण, किंवा त्रिगुणात्मकेन, परमाणुसमूJain Educationa International
For Personal and Private Use Only
www.jainelibrary.org