________________
सू० १।१३] प्रामाण्यवादः
१६९ उताऽव्यतिरिक्तेनोभयरूपेणानुभयरूपेण, त्रिगुणात्मना वार्थेन, परमाणुसमूहलक्षणेन वा' इत्याद्यर्थक्रियार्थिनां चिन्ताऽनुपयोगिनी निष्पन्नत्वाद्वाञ्छितफैलस्य, तथेयमपि 'किं वस्तुभूतायामवस्तुभूतायां वार्थक्रियायां तत्संवेदनम्' इति । वृद्धिच्छेदादिकं हि फलमभिलषितम् , तञ्चेन्निष्पन्नं नृवि(तृड्वि)योगिज्ञानानुभवे किं५ तञ्चिन्तासाध्यम् ?
नं च स्वप्नार्थक्रियाज्ञानस्यार्थाभावेपि दृष्टत्वाजाप्रदर्थक्रियाज्ञानेपि तथा शङ्का; तस्यैतद्विपरीतत्वात् । स्वप्नार्थक्रियाशानं हि सबाघम् । तद्रष्टुरेवोत्तरकालमन्यथाप्रतीतेः न जाग्रद्देशाभावीति ।
१ सायचार्वाको। २ व्यतिरिक्ताव्यतिरिक्त। ३ जैनमीमांसको। ४ बौद्धविशेषः । ५ सत्त्वरजस्तमोलक्षणा गुणाः। ६ साङ्ख्यः । ७ प्रधानेन। ८ बौद्धः । ९ अवयवी। १० योगः। ११ नृणाम् । १२ लानपानावगाहनादेः। १३ अर्थक्रियाशानचिन्ता। १४ अङ्गमलापहार । १५ पुरुषस्य । १६ पुरुषेण । १७ का । १८ अर्थक्रियाशानम् । १९ न सबाधम् । हात्मकेन वा, अथ ज्ञानरूपेण, आहोस्वित् संवृतिरूपेण इत्यादिचिन्ता अर्थक्रियामात्राथिनां निष्प्रयोजना निष्पन्नत्वाद्वान्छितफलस्य, तथेयमपि किं वस्तुसत्यामर्थक्रियायां तत्संवेदनज्ञानमुपजायते आहोस्विदवस्तुसत्याम् इति । तृड्दाहविच्छेदादिकं हि फलमभिवाञ्छितम् , तच्चाभिनिष्पन्नम् , तद्वियोगिज्ञानस्य स्वसंविदितस्योदये इति तचिन्ताया निष्फलत्वम्।"
सन्मति० टी० पृ० १४ । - 1 "तथाहि लोके सद्धि ( वृद्धि ) च्छेदादिकं फलमभिवान्छितम् तच्चाहादपरितापादिरूपज्ञानाविर्भावादेव निवृत्तमित्येतावतैवाहितसन्तोषा निवर्तन्ते जना इति स्वत एव सिद्धिरुच्यते।"
तत्त्वसं० पं० पृ० ७७८ । 2 "ननु चार्थक्रियामासि ज्ञानं स्वप्नेऽपि विद्यते ।
न च तस्य प्रमाणत्वं तद्धेतोः प्रथमस्य च ॥ २९८० ॥ नैवं भ्रान्ता हि सावस्था सर्वा बाह्यानिबन्धना । न बाद्यवस्तुसंवादस्तास्ववस्थासु विद्यते ॥ २९८१ ॥ एवमर्थक्रियाज्ञानात् प्रमाणत्वविनिश्चये ।
नानवस्था पराकासाविनिवृत्तेरिति स्थितम् ॥ २९८६ ॥ • किञ्च, प्रमाणमविसंवादिशानमित्यनेन अर्धक्रियाधिगमलक्षणफलप्रापकहेतोनिस्वदं लक्षणमुच्यते, ततश्च फलज्ञाने लक्षणानवतारात् कथं तस्यापि प्रामाण्यमवसीयते इत्यस्य चोचस्यावकाशः कथं भवेत् ? तथाहि-अङ्कुरस्य हेतु/जम् इति लक्षणे सति अङ्कुरस्यापि कथं बीजत्वमिति किं विदुषां प्रश्नो जायते ? यथा च बीजस्य तद्भावोऽङ्कुरदर्शनादवगम्यते तथा प्रमाणस्यापि तद्भावोऽर्थक्रियालक्षणफलदर्शनात् ।" तत्त्वसं० पं० पृ. ७८४ । न्यायकुमु० पृ० २०२ । सन्मति० टी० पृ० १५ ।
प्र०क० मा० १५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org