SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ १६६ प्रमेयकमलमार्तण्डे [प्रथमपरि० प्रामाण्यप्रसङ्गाच्च । निखिलवचनानां लोके गुणवत्पुरुषप्रणीतत्वेन प्रामाण्यप्रसिद्धः, अंबान्यथापि तत्परिकल्पने प्रतीतिविरोधाच्च । अपि च अपौरुषेयत्वेण्यागमस्य न स्वतोऽर्थे प्रतीतिजनकत्वम् सर्वदा तत्प्रसङ्गात् । नापि पुरुषप्रयत्नाभिव्यक्तस्य; तेषां रागा५दिदोषदुष्टत्वेनोपगमात् तत्कृताभिव्यक्तेर्यथार्थतानुपपत्तेः। तथाच अप्रामाण्यप्रसङ्गभयादपौरुषेयत्वाभ्युपगमो गजनानमनुकरोति । तदुक्तम् "असंस्कार्यतया पुंभिः सर्वथा स्यानिरर्थता । संस्कारोपगमे व्यक्तं गजनानमिदं भवेत् ॥ १॥" [प्रमाणवा० १२३२] तन्न प्रामाण्यस्योत्पत्तौ परीनपेक्षा। नौपि शप्तौ । साहि निर्निमित्ता,सन्नि(सनि)मित्ता वा? न तावनिनिमित्ता प्रतिनियतदेशकालखभावाभावप्रसङ्गात् । सनिमि त्तत्वे किं खनिमित्ता, अन्यनिमित्ता वा? न तावत्स्वनिमित्ता, १५खंसंविदितत्वानभ्युपगमात् । अन्यनिमित्तत्वे तत्किं प्रत्यक्षम्, उतानुमानम् ? न तावत्प्रत्यक्षम्। तस्य तंत्र व्यापाराभावात् । तद्धीन्द्रियसंयुक्ते विषये तद्यापारादुदयमासादयत्प्रत्यक्षव्यपदेशं लभते । न च प्रामाण्येनेन्द्रियाणां संम्प्रयोगो येन तद्यापारजनितप्रत्यक्षेण तत्प्रतीयेत । नापि मनोव्यापारजेप्रत्यक्षेण, एवं. २० विधानुभवाभावात् । १ वेदे । २ अपौरुषेयत्वेन। ३ अन्यथा। ४ ज्ञातस्य । ५ अपौरुषेयत्वस्य । ६ अपौरुषेयस्य वेदस्य । ७ वेदस्य पुरुषकृताभिव्यक्तितोऽथे प्रतीतिजनवात्वे च। ८ तव परस्य । ९ वेदस्य । १० निश्चिता। ११ पुंभिः। १२ गुण । १३ मीमांसकमतप्रक्षेपं करोति। १४ अन्यथा। १५ प्रामाण्यमात्मानं खेनैव जानाति। १६ अत्यन्तपरोक्षत्वाद्विज्ञानस्य । १७ मीमांसकैः। १८ प्रामाण्यशप्तौ। १९ जायमानम्। २० सन्निकर्षः। २१ अपि तु न। २२ तत्प्रतीयेत । २३ प्रामाण्यशप्तिरूप । २४ प्रामाण्यशप्तेः। रक्तं नीलसरोजं हि वह्नयालोके स हीष्यते । वयादिः कृतकत्त्वाचन हेतुरुपपद्यते ॥ २४०४ ।। तत्वसं० पं० पृ० ६५६ । 1 "यतो निश्चयस्तत्र भवन् किं निनिमित्तः उत सनिमित्तः इति कल्पनाद्वयम् । तत्र न तावन्निनिमित्तः, प्रतिनियतदेशकालस्वभावाभावप्रसङ्गात् । सनिमित्तत्वेऽपि किं स्वनिमित्त उत स्वव्यतिरिक्तनिमित्तः ?" सन्मति० टी० पृ० १३ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy