________________
१v
सू० १११३] प्रामाण्यवादः तदेवं च प्रेमारूपं तद्वती करणं च धीः ॥ २॥"
[मी० श्लो० सू०२ श्लो० ५५-५६ ] इति।। किञ्च, प्रेमाणस्य किं कार्य यत्रास्य प्रवृत्तिः खयमेवोच्यतेयथार्थपरिच्छेदः, प्रमाणमिदमित्यवसायो वा? तेत्राद्यविकल्पे 'आत्मानमेव करोति' इत्यायातम्, तच्चायुक्तम् ; स्वात्मनि क्रियाविरोधात् । नापि प्रमाणमिदमित्यवसायः; भ्रान्तिकारणसद्भावेन कैचित्तदभावात् , क्वचिद्विपर्ययदर्शनाच्च । ___ अनुमानोत्पादकहेतोस्तु साध्याविनाभावित्वमेव गुणो यथा तद्वैकल्यं दोषः। साध्याविनाभावस्य हेतुखरूपत्वाहुणरूपत्वाभावे तवैकल्यस्यापि हेतोः स्वरूपविकलत्वाद्दोषता मा भूत्।
औगमस्य तु गुणवत्पुरुषप्रणीतत्वेन प्रामाण्यं सुप्रसिद्धम् , अपौरुषेयत्वस्यासिद्धः, नीलोत्पलादिषु दहनादीनां वितर्थप्रतीतिजनकत्वोपलम्भेनानेकान्तात्, परस्परविरुद्धभावनानियोगांद्यथेषु : १ एवं चेद्विशानस्य करणरूपता क्रियारूपता न स्यादित्युक्ते आह । २ जन्मैव । ३ परिच्छित्ति । ४ स्वशप्ति । ५ तयोर्मध्ये । ६ स्वस्वरूपम् । ७ तत्र प्रवर्तनात्तस्य । ८ उत्पत्तिलक्षणाया। ९ सदोषनयन । १० सत्यजलशाने प्रमाणस्वभावे । ११ भ्रान्तशाने प्रमाणमित्यध्यवसायदर्शनात् । १२ शब्दस्य । १३ पुनः । १४ "पूर्वाचायों हि धात्वर्थ वेदे भट्टस्तु भावनाम् । प्राभाकरो नियोगं तु शङ्करो विधिमब्रवीत्। १५ आगमो धर्मी प्रामाण्यं भवतीति साध्यम् । १६ स्वर्ण । १७ यदपौरुषेयं तत्प्रमाणमित्युक्तऽनेकान्तात् । १८ विधि । १९ बोधे। . 1 "नच ज्ञानस्य किञ्चित्कार्यमस्ति यत्र व्याप्रियेत। स्वार्थपरिच्छेदात्मकमस्तीति चेन्न; ज्ञानपर्यायत्वादस्य आत्मानमेव करोतीति सुव्याहृतमेतत् ! प्रमाणमेतत् इति निश्चयजननं स्वकार्यमिति चेन्न; कचिदनिश्चयाद्विपर्ययदर्शनाच्च ।" तत्त्वसं० पं० पृ० ७७० । सन्मति० टी० १० ११। - 2 "अविनाभावनिश्चयस्यैव गुणत्वात् तदनिश्चयस्य विपरीतनिश्चयस्य च दोषस्वात् ।"
सन्मति० टी० पृ० ११ । 3 "पुनरप्यपौरुषेयस्यानैकान्तिकता प्रतिपादयन्नाह
न नराकृतमित्येव यथार्थशानकारि तु ।
दृष्टा हि दाववहथादेमिथ्याशानेऽपि हेतुता ॥ २४०३ ॥ नहि पुरुषदोषोषधानादेवार्थेषु ज्ञानविभ्रमः, तद्रहितानामपि दाववढ्यादीनां नीलोत्पलादिषु वितथशानजननात् । दावो वनगतो वह्निः, स पुनर्यः स्वयमेव वेण्वादीनां सङ्घर्षसमुद्भूतः स इह व्यभिचारविषयत्वेन द्रष्टव्यः । यस्त्वरणिनिर्मथनादिपुरुषैनिवृत्तं तत्रापौरुषेयत्वासंभवात् ततो न हेतोर्व्यभिचार इति भावः । आदिश. ब्देन मरीच्यादिपरिग्रहः । तामेव मिथ्याज्ञानहेतुतां दर्शयन्नाह--
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org