________________
[ प्रथमपरि०
स्तत्राविद्यमानत्वेप्युत्पत्त्युपगमेऽर्थग्रहणशच्या कोपराधः कृतो येनास्यास्ततः समुत्पादो नेष्यते ? न चेमाः शक्तयः स्वाधारेभ्यः समासादितव्यतिरेकाः येन खाधाराभिमतविज्ञानवत् कारणेभ्यो नोदयमासादयेयुः । पाश्चात्यसंवादप्रत्ययेन प्रामाण्य५ स्याजन्यत्वात्स्वतोभावेऽप्रामाण्यस्यापि सोस्तु । न खलुत्पन्ने विज्ञाने तदप्युत्तरकालभाविविसंवादप्रत्ययाद्भवति ।
१६४
१५
प्रमेयकमलमार्त्तण्डे
चोक्तम् -' लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु तदप्युक्तिमात्रम् ; यथावस्थितार्थ व्यवसायरूपं हि संवेदनं प्रमाणम्, तस्यात्मलाभे कारणापेक्षायां कोऽन्यों वकार्ये प्रवृत्तिर्या स्वयमेव १० स्यात् ? घटस्य तु जलोद्वहनव्यापारात्पूर्व रूपान्तरेणापि खहेतोरुत्पत्तेर्युक्ता मृदादिकारण निरपेक्षस्य तंत्र प्रवृत्तिः प्रतीतिनिबन्धनत्वाद्वस्तुव्यवस्थायाः । विज्ञानस्य तुत्पत्यनन्तरमेव विनाशोपगमात्कुतो लब्धात्मनो वृत्तिः स्वयमेव स्यात् ? तदुक्तम्" न हि तत्क्षणमप्यास्ते जीयते वाऽप्रमात्मकम् । येनार्थग्रहणे पञ्चद्याप्रियेतेन्द्रियादिर्वेत् ॥ १ ॥ तेने जन्मैव बुद्धेर्विषये व्यापार उच्यते ।
२१.
१ परेण । २ कर्तृभूतया । ३ सापि ज्ञानेऽविद्यमाना इन्द्रियैर्जन्यताम् । ४ परेण । ५ ज्ञानेभ्यः । ६ प्राप्तभेदाः । ७ आक्षेपे । ८ यथा शक्त्या आधारीभूतविज्ञानं कारणेभ्यो न तथेमा इत्यर्थः । ९ परेणाङ्गीकृते । १० परेण । ११ प्रामाण्यं कथ्यते । १२ आक्षेपोक्तिः । १३ प्रामाण्य | १४ अर्थपरिच्छित्तिरूपे प्रवृत्तिरूपे च । १५ न कापि । १६ रिक्ततारूपेण । १७ जलाहरणलक्षणे स्वकार्ये । १८ परमते । १९ न हि । २० अप्रमिति । २१ आक्षेपे । २२ ज्ञानस्य लक्षणान्तरे अव - स्थानप्रकारेण अप्रमात्मकभवनप्रकारेण । २३ उत्पत्त्यनन्तरम् । २४ आत्मनः ! २५ क्षणमपि नास्ते अप्रमात्मकं वा न जायते येन प्रकारेण । २६ व्यापृतिः ।
1 "अप्रामाण्यमपि चैवं स्वतः स्यात्, नहि तदपि उत्पन्ने ज्ञाने विसंवादप्रत्ययादुत्तरकालभाविनः तत्रोत्पद्यते इति कस्यचिदभ्युपगमः ।"
सन्मति ० टी० पृ० १० १
2 " ततश्च स्वार्थावबोधशक्तिरूपप्रामाण्यात्मलामे चेत् कारणापेक्षा कान्या स्वकार्ये प्रवृत्तिर्या स्वयमेव स्यात्... घटस्य जलोद्वहनव्यापारात्पूर्वं रूपान्तरेण स्वहेतोरुत्पत्तेर्युक्तं मृदादिकारणनिरपेक्षस्य स्वकार्ये प्रवृत्तिरिति विसदृशमुदाहरणम् ।”
सन्मति ० टी० पृ० १० ।.
3 " यत्तु ज्ञानं त्वयापीष्टं जन्मानन्तरमस्थिरम् । लब्धात्मनोऽसतः पश्चाद्व्यापारस्तस्य कीदृशः ॥ २९२२ ॥
Jain Educationa International
For Personal and Private Use Only
तत्त्वसं० पृ० ७७० ।
www.jainelibrary.org