________________
सू० १११३] प्रामाण्यवादः येनोपलम्भसामान्येऽध्ययं पर्यनयोगः स्यात् । लोकं च प्रमाणयतोभयं परतः प्रतिपत्तव्यम् । सुप्रसिद्धो हि लोकेऽप्रामाण्ये दोषावष्टब्धचक्षुषो व्यापारः, प्रामाण्ये नैर्मल्यादियुक्तस्य, 'यत्पूर्व दोषावष्टब्धमिन्द्रियं मिथ्याप्रतिपत्तिहेतुस्तदेवेदानी नैर्मल्यादियुक्तं सम्यक्प्रतिपत्तिहेतुः, इति प्रतीतेः।
यच्चोच्यते-कचिनिर्मलमपीन्द्रियं मिथ्याप्रतीतिहेतुरन्यत्रारतादिस्वभावं सत्यप्रतीतिहेतुः, तत्रापि प्रतिपत्तुर्दोषःस्वच्छनील्यादिमले निर्मलीभिप्रायात् । अनेकप्रकारो हि दोषः प्रकृत्यादिभेदात्, तेदभावोपि भावान्तरसभावस्तथाविधस्तत एव । न चोत्पन्न सद्विज्ञानं प्रामाण्ये नैर्मल्यादिकमपेक्षते येनानयोभदस्यात् । १० गुणवञ्चक्षुरादिभ्यो जायमानं हि तदुपात्तप्रामाण्यमेवोपजायते ।
अर्थतथाभावपरिच्छेदसामर्थ्यलक्षणप्रामाण्यस्य खतो भावाभ्युपगमे च अर्थान्यथात्वपरिच्छेदसामर्थ्यलक्षणाप्रामाण्यस्याप्यविद्युमानस्य के चित्कर्तुमशक्तेः खतो भावोऽस्तु ।
कथं चैवं वादिनो ज्ञानरूपतात्मन्यविद्यमानेन्द्रियैर्जन्यते? तस्या-१५
१ विशेषरहितगोत्वादिसामान्योपलम्भप्रकारेण । गुणदोषरहितेन्द्रियसामान्योपलम्भप्रकारेण च । २ अपि शब्दोत्र एवकाराथें। ३ यतो यथार्थत्वायथार्थत्वे विहायेत्यादिः। ४ उपलम्भसामान्यस्यानुपलम्भलक्षणः । ५ अपि तु विशेषेप्ययं पर्यनुयोगो ज्ञातव्यः । ६ प्रामाण्यामप्रामाण्यं । ७ चक्षुषः। ८ नरे । ९ पुरुषान्तरे । १० पुरुषस्य । ११ निर्मल इति । १२ वातपित्तादि । १३ नैर्मल्यादिगुण । १४ अनेकप्रकारः। १५ गुणम् । १६ कालभेदः । १७ शानं कर्तृ । १८ न हि स्वतोऽसती शक्तिरित्यस्य दोषमाह । १९ परेण । २० स्वाश्रयकारणे। २१ कारणेन । २२ यत्कारणेऽविद्यमानं तत्स्वत एव जायते इत्येवंवादिनः। २३ घटायाकार विशेषितज्ञानरूपता।
1 "यतो यदि लोकव्यवहारसमाश्रयणेन प्रामाण्याप्रामाण्ये व्यवस्थाप्यते तदा अप्रामाण्यवत् प्रामाण्यमपि परतो व्यवस्थापनीयम्..." सन्मति० टी० पृ० ९ । 2 किच्चाप्रामाण्यमप्येवं स्वत एव प्रसज्यते ।
नहि स्वतोऽसतस्तस्य कुतश्चिदपि संभवः ॥ २८४३ ॥ ...तथाह्यप्रामाण्यमपि विपरीतार्थपरिच्छेदोत्पादिका शक्तिः, शक्तेश्च विज्ञानाधितायाः कालत्रयेऽप्यकरणात् प्रामाण्यवदप्रामाण्यात्मिका शक्तिः स्वत एव प्रसज्येत ।"
तत्त्वसं० पं० पृ. ७५५ । "एवमभिधानेऽयथावस्थितार्थपरिच्छेदशक्तेरप्यप्रामाण्यरूपाया असत्याः केनचिकर्तुमशक्तेस्तदपि स्वतः स्यात् ।"
सन्मति० टी० पृ. ९ । 3"किंच, यद्यात्मन्य विद्यमानं रूपं कारणैन धीयते कायें तदा कथमिन्द्रियादयो ज्ञाने (ज्ञान) रूपतामात्मन्यसतीमादधति विज्ञाने ? यथाऽविद्यमानापि सा तैराधीयते अर्थपरिच्छेदशक्तिं किन्नादधीरन् ?" तत्वसं० पं० पृ० ७५३ । सन्मति० टी० पृ०९।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org