________________
N
प्रमेयकमलमार्तण्डे [प्रथमपरि० सर्गिकत्वम् दुष्टकारणप्रभवासत्यप्रत्ययेष्वभावात् ? अप्रामाण्यस्य चौत्सर्गिकत्वमस्तु दोषाणां गुणापगेमे व्यापारात्। भवतु वा भावा. द्भिन्नोऽभावः, तथाप्यस्य प्रामाण्योत्पत्तौ व्याप्रियमाणत्वात्कथं
तत्वतः? न चाभावस्याऽर्जनकत्वम् , कुड्याद्यभावस्य परभागा५वस्थितघटादिप्रत्ययोत्पत्तौ जनकत्वप्रतीतेः, प्रमाणपञ्चकामावस्य चाभावंप्रमाणोत्पत्तौ।
योपि-यथार्थत्वायथार्थत्वे विहायोपलम्भसामान्यस्यानुपलम्भा-सोपि विशेषनिष्ठत्वात्तत्सामान्यस्य युक्तः। न हि निर्विशेष गोत्वादिसामान्यमुपलभ्यते गुणदोषरहितमिन्द्रियसामान्यं वा,
१ नैसर्गिकत्वम् । २ औत्सर्गिकत्वस्य । ३ किञ्च । ४ कुतः। ५ निराकरणे नाशे । ६ गुणरूपात् । ७ गुणेभ्यो भिन्नो दोषाणामभाव इत्यर्थः । ८ प्रामाण्यं प्रति। ९ प्रमिति । १० न हि सर्वथा यथार्थत्वायथार्थत्वविशेषाद्भिन्नमुपलम्भसामान्यम् ।।
1 "तस्माद्गुणेभ्यो दोषाणामभावात्तदभावतः।
अप्रामाण्यद्वयासत्वं तेनोत्सगोऽनपोदितः ॥ ३०५७ ॥ सर्वत्रैवं प्रमाणत्वं निश्चितं चेदिहाप्यसौ । पूर्वोदितो दोषगणः प्रसक्ता चानवस्थितिः । ३०५८॥ तस्मादेव च ते न्यायादप्रामाण्यमपि स्वतः । प्रसक्तं शक्यते वक्तुं यस्मात्तत्राप्यदः स्फुटम् ॥ ३०६६ ॥ तस्माद्दोषेभ्यो गुणानामभावस्तदभावतः ।
प्रमाणरूपनास्तित्वं तेनोत्सर्गोऽनपोदितः ॥ ३०६७ ॥" तत्त्वसं० पृ० ८०० । न्यायकुमु० पृ० १९८ । सन्मति० टी० पृ० ९ ।
2 "(पूर्वपक्षः) यदि हि यथार्थत्वायथार्थत्वरूपद्वयरहितमेव किञ्चिदुपलब्ध्याख्यं कार्य भवेत् तदा कार्यत्रैविध्यमध्यवसीयेत यदुत यथार्थोंपलब्धेर्गुणवन्ति कारकाणि अयथार्थोपलब्धेर्दोषकलुषितानि उभयरूपरहितायाः पुनरुपलब्धेः स्वरूपावस्थितान्येवेति, नत्वेवमस्ति, द्वेधा हीयमुपलब्धिरनुभूयते यथार्था चायथार्था च । तत्र अयथार्थोपलब्धिस्तावत् दृष्टकारणजन्यैव संवेद्यते । यथाहि-दुष्टकारणकलापाहःशिक्षितकुलालादेः कुटिलकलशादिकार्यमवलोक्यते तथा तिमिरादिदोषदुष्टान्नयनादिकारणकदम्बकाद कुमुदबान्धवद्वितयप्रत्ययादिका अयथार्थोपलब्धिरपि, अत एव उत्पत्ती दोषापेक्षत्वादप्रामाण्यं परत एवेति कथ्यते । तदित्थमयथार्थोपलब्धी दुष्टकारणजन्यत्वेन प्रसिद्धायामिदानीं तृतीयकार्याभावात् यथार्थोपलब्धिः स्वरूपावस्थितेभ्य एव कारणेभ्योऽवकल्प्यते इति न गुणकल्पनायै सा प्रभवति...(पृ० २४३ ) (उत्तरपक्ष:-) यत्पुनरुक्तम्द्वेधा हीयमुपलब्धिरनुभूयते यथार्था च अयथार्था चेति; तत्र न विप्रतिपद्यामहे । न हि यथार्थत्वायथार्थत्वे विहाय निर्विशेषमुपलब्धिसामान्यमुपपद्यते विशेषनिष्ठत्वात् सामान्यस्य, न खलु शाबलेयबाहुलेयादिविशेषविकलं गोत्वादिसामान्यं प्रतीयते येनेदमुपलब्धिसामान्यं यथार्थत्वायथार्थत्व विशेषरहितं प्रतीयेत..." स्या० रत्ना० पृ० २४६ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org