________________
सू० १११३] प्रामाण्यवादः इत्यस्य विरोधः। , तथा च गुणदोषाणां परस्परपरिहारेणावस्थानाहोषाभावे गुणसद्भावोऽवश्याभ्युपगन्तव्योऽग्यभावेशीतसद्भाववत् , अभा वाभावे भासद्भाववद्वा । अन्यथा कथं हेतौ नियमाभावो दोषः स्यात् अभावस्य गुणरूपतावद्दोषरूपत्वस्याप्ययोगात् ? तथाच-५ नैर्मल्यादिव्यतिरिक्तगुणरहिताच्चक्षुरादेरुपजायमानप्रामाण्यवन्नियमविरहव्यतिरिक्तदोषरहिताद्धेतोरप्रामाण्यमप्युपजायमानं खतो, विशेषाभावात् । तथा च
"अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः । वस्तुत्वाद्विविधस्यात्र सम्भवो दुष्टकारणात् ॥” १०
[ मी० श्लो० सू० २ श्लो० ५४] , इत्यस्य विरोधः। ततो हेतोर्नियमविरहस्य दोषरूपत्वे चेन्द्रिये मलापगमस्य गुणरूपतास्तु । तथाच सूक्तमिदम्
"तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः। अप्रामाण्यद्वयासत्त्वं तेनोत्सर्गोऽनेपोदितः ॥" .
---- [ मी० श्लो० सू० २ श्लो० ६५ ] इति । 'गुणेभ्यो हि दोषाणामभावः' इत्यभिदैधता 'गुणेभ्यो [णाः' एवाभिहितास्तथा प्रामाण्यमेवाप्रामाण्यद्वयासत्त्वम्, तस्य गुणेभ्यो भावे कथं न परतः प्रामाण्यम् ? कथं वा तस्यौ
. १ निस्स्वभावत्वाभावे । २ घटस्य । ३ कपालस्य । ४ घटस्य । ५ नैव । ६ साधने । ७ अविनाभावाभावः । ८ स्वतः। ९ भावान्तररहितकारणमात्रजन्यत्वस्य । १० विपर्यय । ११ शानाभावः स्वप्नावस्थायाम्। १२ अशानस्य शानभावरूपतया स्वतःसिद्धत्वान्न तत्र काचिदपेक्षा । १३ भावरूपत्वात् । १४ संशयविपर्ययरूपस्य । १५ त्रिषु मध्ये। १६ काचकामलादिदोषदूषिताच्चक्षुषः। १७ ग्रन्थस्य । १८ अनुमानस्य प्रामाण्ये गुणानां व्यापारो न दृष्टो यतः। १९ संशयविपर्यय । २० कारणेन । २१ प्रामाण्यम् । २२ अबाधित आस्ते । २३ परेण । २४ गुणा. भावरूपत्वादोषाणां दोषाभाव एव च गुणः। २५ यथा गुणेभ्यो दोषाणामभावः । २६ किञ्च ।
- 1"दोषाभावो हि पर्युदासवृत्त्या गुणात्मक एव भवेत् , ततश्च तत्परिज्ञानमपि गुणज्ञानात्मकं प्राप्नोति ।" तत्वसं० पं० पृ० ७९९ । न्यायकुमु० पृ० १९८ । सन्मति० टी० पृ० १० । स्या० रत्ना० पृ० २४८ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org