SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ १६० प्रमेयकमलमार्तण्डे [प्रथमपरि० उत्पत्तिप्रभृतितःप्रतीयमानत्वाविशेषात्? 'यंच्चक्षुरादिव्यतिरिक्तभावाभावानुविधायि तत्तत्कारणकम् , यथाऽप्रामाण्यम्, तथा च प्रामाण्यम् । यच्च तद्यतिरिक्तं कारणं ते गुणाः' इत्यनुमानतोपि तेषां सिद्धिः। . ५ यच्चेन्द्रियगुणैः सह लिङ्गैस्य प्रतिबन्धः प्रत्यक्षेण गृह्येत, अनुमानेन वेाद्युक्तम्। तदप्ययुक्तम् ऊहाख्यप्रमाणान्तरात्त. प्रतिबन्धप्रतीतेः । कथं चाप्रामाण्यप्रतिपादकदोषप्रतीतिः? तंत्राप्यस्य समानत्वात् । नैर्मल्यादेर्मलाभावरूपत्वात्कथं गुण रूपतेत्यप्यसाम्प्रतम्; दोषाभावस्य प्रतियोगिपैदार्थस्वभाव. १० त्वात् । निःस्वभावत्वे कार्यत्वधर्माधारत्वविरोधात् खरविषाणवत् । तथाविधस्याप्रतीतेरनभ्युपगमाञ्चे, अन्यथा "भावान्तरविनिमुक्तो भावोऽत्रीनुपलम्भवेत् । अभावः समस्त (सम्मतस्त)स्य हेतोः किन्न समुद्भवः॥"[] . १ प्रामाण्यं धर्मि चक्षुरादिव्यतिरिक्तपदार्थकारणकं भवति चक्षुरादिव्यतिरिक्तपदार्थ. भावाभावानुविधायित्वात् । २ कारणस्य । ३ यथार्थोपलब्धिलक्षणविशिष्टकार्यत्वादि. त्यस्य । ४ अविनाभावः । ५ गुणसद्भावे प्रामाण्यस्य सद्भावस्तदभावे प्रामाण्यस्यामाव इति । ६ परेण । ७ इन्द्रियगुणलिङ्गस्य। ८ दोषपक्षेपि दोषैस्सह लिङ्गस्य सम्बन्धः प्रत्यक्षेण गृह्यतेऽनुमानेन वेत्यादिदोषस्य । ९ भावान्तरस्वभावत्वादभावस्य । १० यद् (गुण) निरूपणाधीनं निरूपणं यस्य (दोषस्य) तत्तत्प्रतियोगि। ११ गुण । १२ अभावस्य । १३ अञ्जनादिना क्रियमाणत्वलक्षणकार्यत्व(नैर्मल्यादि)। १४ निस्वभावाभावस्य । १५ त्वया परेण । १६ अभ्युपगमे। १७ गुणाद्दोषलक्षणं कपालक्षणादन्यो घटो वा। १८ गुणः कपालं वा। १९ मीमांसकमते। २० एकस्माद्भूतलोपलम्भ. लक्षणाद्भावादपरो घटोपलम्भलक्षणो भावो भावान्तरं तेन विनिर्मुक्तो भावो भूतलोपलम्भलक्षणः स एव घटस्यानुपलम्भो यथा । २१ लिङ्गस्य । . . __ 1 "तथाहि-अतीन्द्रियलोचनाद्याश्रिता दोषाः किं प्रत्यक्षेण प्रतीयन्ते, उत अनुमानेन ? न तावत् प्रत्यक्षेण इन्द्रियादीनामतीन्द्रियत्वेन तद्वतदोषाणामप्यतीन्द्रियत्वेन तेषु प्रत्यक्षस्याप्रवृत्तेः । नाप्यनुमानेन; अनुमानस्य गृहीतप्रतिबन्धलिङ्गप्रभवत्वाभ्युपगमात् । लिङ्गप्रतिबन्धग्राहकस्य च प्रत्यक्षस्यानुमानस्य चात्र विषयेऽसम्भवात् । प्रमाणान्तरस्य चात्रानन्तर्भूतस्यासत्त्वेन प्रतिपादयिष्यमाणत्वात् इत्यादि सर्वमप्रामाण्योत्पत्तिकारणभूतेषु लोचनाद्याश्रितेषु दोषेष्वपि समानमिति ।” सन्मति० टी० पृ०.९ । 2 "पदार्थान्तरेण विनिर्मुक्तः त्यक्तः भिन्न इति यावत् , इत्थम्भूतो भाव एवाभावः न पुनर्भावादतिरिच्यते इत्यर्थः । तत्र दृष्टान्तोऽनुपलम्भः, यथा घटानुपलम्भो घटातिरिक्तस्य पटादेरुपलम्भे पर्यवस्यति, तथा दोषा[ऽभावो]भावान्तरे पर्यवसायी वाच्य इत्याशय इति" गु० टि०। ....... सन्मति० टी० टि० पृ० १०। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy