________________
सू० १।१३ ]
१५७
यापि तत्तुल्यरूपेऽन्यंत्र तयोर्दर्शनात्तदशङ्काः सापि त्रिचतुरज्ञानापेक्षामात्रान्निवर्त्तते । न च तदपेक्षायां स्वतः प्रामाण्यव्याघाdiseaस्था वा संवादकज्ञानस्याप्रामाण्य व्यवच्छेदे एव व्यापारादन्यैज्ञानानपेक्षणाच्च । तदुक्तम्
"एवं त्रिचतुरज्ञानजन्मनो नाधिका मंतिः । प्रांर्थ्यते तावतैवेयं स्वतः प्रामाण्यमश्रुते ॥ १ ॥ ” [ मी० श्लो० सू० २ श्लो० ६१] योऽप्यनुत्पद्यमानः संशयो बलादुत्पाद्यते सोप्यर्थक्रियार्थिनां सर्वत्र प्रवृत्त्यादिव्यवहारोच्छेदकारित्वान्न युक्तः । उक्तञ्च" आशङ्केतं हि यो मोहदजातमपि बाधकम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ १ ॥" [
प्रामाण्यवादः
५ पचमस्य
१ अप्रमाणे । २ अप्रामाण्य | ३ प्रमाणे । ४ परिज्ञाने । ज्ञानस्य । ६ स्वग्रन्थोक्तप्रकारेण कथमाद्यज्ञानस्य द्वितीयादिसंवादज्ञानापेक्षित्व प्रकारेण ॥ ७ उत्पत्तेः । ८ का । ९ ज्ञानम् । १० वाञ्छते पुरुषेण । ११ प्राप्नोति । १२ यथाऽऽज्ञायज्ञानं द्वितीयं द्वितीयं च तृतीयं तृतीयं च चतुर्थमपेक्षते । तथा चतुर्थेनापि पञ्चममपेक्षणीयमित्यादिप्रकारेणानवस्था किमिति न स्यादित्युक्ते सत्याह । १३ विषये । १४ अज्ञानात् । १५ प्रवृत्तिनिवृत्तिरूपेषु । १६ यतः ।
2
]
1 "ननु यथा आद्यस्य द्वितीयेन दोषोऽवगतः तस्यापि तृतीयेन तथा तृतीयस्यापि दोषाशङ्का भवत्येव, तथा सर्वत्रैवेति न क्वचिदाश्वासः स्यादत आह- 'दोषज्ञाने त्वनुत्पन्ने न शङ्कया निष्प्रमाणता' इति | दिक्कालावस्थेन्द्रियविषयदोषा हि मिथ्यात्व हेतवो लोकप्रसिद्धा यत्र नैत्र संभवन्ति यथा जागर्यायामालोके स्वस्थेन्द्रियमनस्कस्य सन्निहितघटज्ञाने । तत्र नैव दोषाशङ्का, तदभावाच्चाप्रामाण्याशङ्कापि नैव भवति । यथाविधेषु हि अप्रामाण्यसंभवः तथाविधेष्वेव तदाशङ्का भवति, संभावितदोषेषु च तत्संभव इति कथमन्यत्र शङ्कयते ? नहि ज्ञानत्वमात्रेण संशयो युक्तः; संशयस्य साधारणधर्मादिनिश्वाधीनत्वात् । तदवश्यं कानिचिज्ज्ञानानि असन्दिग्धप्रामाण्यान्येवोत्पद्यन्ते । तस्मान्न सर्वत्राशङ्का । यत्रापि दूरत्वादिदोषसंभवादप्रामाण्याशङ्का, तत्रापि प्रत्यासत्तिगमनादिनाऽन्यतरपदार्थनिर्णयान्नातिदूरगमनमिति । एवं च तृतीयज्ञाने दोषो यदि न संभावितः ततस्तदवधिरेव निर्णयः । अथ तु संभावितः ततस्तन्निराकरणप्रयत्नेन चतुज्ञानावसानो निर्णय इति नाधिकज्ञानापेक्षा । तावतैव तृतीयेन चतुर्थेन वा द्वितीयस्य तृतीयस्य बाधे सति यस्यैवाद्यस्य द्वितीयस्य वा प्रामाण्यं समर्थ्यते तस्य स्वाभाविकं प्रामाण्यमनपोदितं भवति । इतरच्चापवादादप्रमाणमिति नानवस्था ।”
मी० लो० न्यायरत्ना० पृ० ६४ ।
Jain Educationa International
१०
"उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥ २८७२ ॥ तत्त्वसं ० ( पूर्वपक्षे )
प्र० क० मा० १४
For Personal and Private Use Only
www.jainelibrary.org