________________
१५६
प्रमेयकमलमार्तण्डे [प्रथमपरि० वा? । न तावत्तदविषयम्; चक्षुरादिज्ञाने ज्ञानान्तरस्याप्रतिभासनात्, प्रतिनियतपादिविषयत्वार्तस्य । तदविषयत्वे च कथं तज्ज्ञानप्रामाण्य निश्चायकत्वं तदग्रहे तद्धर्माणां ग्रहणविरोधात् । भिन्नकालमित्यप्ययुक्तम् । पूर्वज्ञानस्य क्षणिकत्वेन नाशे ५ तदग्राहकत्वेनोत्तरज्ञानस्य तत्प्रामाण्यनिश्चायकत्वायोगात् ।
सर्वप्राणभृतां प्रामाण्ये संन्देहविपर्ययाक्रान्तत्वासिद्धेश्च । समु. त्पन्ने खलु विज्ञाने 'अयमित्थमेवार्थः' इति निश्चयो न सन्देहो विपर्ययो वा। तदुक्तम्
"प्रमाणं ग्रहणात्पूर्व स्वरूपेणैव संस्थितम् । १० निरपेक्षं वकार्ये च गृह्यते प्रत्ययान्तः , ॥१॥"
[मी० श्लो० सू० २ श्लो० ८३] इति प्रमाणाप्रमाणयोरुत्पत्तौ तुल्यरूपत्वान्न संवादविसंवादावन्तरेण तयोः प्रामाण्याप्रामाण्यनिश्चय इति च मनोरथमात्रम् ; अप्र
माणे बाधककारणदोषज्ञानयोरवश्यंभावित्वादप्रामाण्यनिश्चयः, १५प्रमाणे तु तयोरभावात्प्रामाण्यावसायः।
१ स्पर्शनरसनघ्राणश्रोत्र । २ द्वितीये ज्ञाने। ३ आद्यस्य जलज्ञानस्य । ४ रसगन्धस्पर्शशब्द। ५ बसः। ६ बाह्येन्द्रियजनितशानस्य। ७ प्रामाण्यसत्त्वादीनाम् । ८ यदा ज्ञानमुत्पद्यते तदा संशयादिरहितमेवोत्पद्यतेऽतः कथमपरापेक्षा । ९ किन्न । १० भवति। ११ प्रामाण्यं । १२ प्रामाण्यलक्षणस्य धर्मस्यात्रान्तर्भावाद्धर्मिप्रधानोऽयं निर्देशः। १३ परिच्छित्तः। १४ अर्थपरिच्छित्तिप्रवृत्तिलक्षणे। १५ पुरुषैः। १६ संवादरूपैः। १७ सन्निकर्षरूपैः। १८ परतः । १९ निश्चयः। २० भवति । 1 "अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ ५३ ॥
"दोषनिमित्तं हि ज्ञानस्यायथार्थत्वम् , दोषान्वयव्यतिरेकानुविधानात् । अतो. दुष्टकारणजन्येन ज्ञानेन आत्मनः प्रामाण्यं विषयस्यार्थस्यातथाभूतस्यापि तथात्वमवगतमपि अर्थान्यथात्वज्ञानेन दोषज्ञानेन वाऽपोद्यते।" मी० श्लो० न्यायरत्ना० पृ०६२।
"एवमेव स्वतः सर्वज्ञानानां प्रामाण्यम् ; अप्रामाण्यं तु परत एवेत्याश्रित्य प्रत्यकस्थेयम्; तथाहि-विज्ञानं जायमानं यथाभूतमर्थमवभासयति तथाभूत एवार्थ इति निश्चाययत्येव न तु निश्चये ज्ञानान्तरमपेक्षणीयम् , तेन खत एव प्रामाण्यम् । अप्रामाण्यं तु अर्थस्यातथाभावनिश्चयनिरपेक्षं सन्नावगमयितुमलमिति परतोऽप्रामा. ण्यम् । अपि च प्रमाणाप्रमाणसाधारणत्वे निश्चयस्य निश्चयानुसारेण पश्चादाशंकोपजायते; सा परत एवेति परत एवाप्रामाण्यम् । न चापि सर्वत्राशंका, किन्तु यादृशे व्यभिचारदर्शनं तादृश एव शंकेति । नच सर्वावस्थे ज्ञाने व्यभिचारदर्शन मिति सर्वत्राशंका; सर्वत्रैवाशंकायां परतोऽपि प्रामाण्यं न स्यात् , तस्यापि शंकास्पदत्वादिति ।"
. . मीमांसाभाष्यपरि० पृ० ८।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org