________________
१५५
सू० १११३] प्रामाण्यवादः... घटनात् । चक्रकप्रसङ्गश्च । कथं चार्थक्रियाज्ञानस्य तैनिश्चयः ? अन्यार्थक्रियाज्ञानाच्चेदनवस्था । प्रथमप्रमाणाच्चेदन्योन्याश्रयः । अर्थक्रियाज्ञानस्य स्वतःप्रामाण्य निश्चयोपैगमे चौद्यस्य तथाभावे किकृतः प्रद्वेषः? तदुक्तम्
"यथैव प्रथमज्ञानं तत्संवादमपेक्षते । संवादेनापि संवादः परो मृग्यस्तथैव हि ॥१॥[ ] कस्यचित्तु यदीष्येत खत एव प्रमाणता । प्रथमस्य तथाभावे प्रद्वेषः केन हेतुना ॥२॥
[मी० श्लो० सू० २ श्लो० ७६] . संवादस्याथ 'पूर्वेण संवादित्वात्प्रमाणता। अन्योन्याश्रयभावेन प्रामाण्यं न प्रकल्पते ॥३॥[ ] इति। अर्थक्रियाज्ञानस्यार्थाभावेऽदृष्टंत्वान्न स्वप्रामाण्यनिश्चयेऽन्यापेक्षा साँधनज्ञानस्य त्वर्थाभावेपि दृष्टत्वातंत्र तदपेक्षा युक्ता; इत्यप्य. सङ्गतम् तस्याप्यर्थमन्तरेण स्वप्नदशायां दर्शनात् । फलावाप्तिरूपत्वात्तस्य तंत्र नान्यापेक्षा साधननिर्भासिज्ञानस्य तु फलावाप्ति-१५ रूपत्वाभावात्तदपेक्षा; इत्यप्यनुत्तरम् फलावाप्तिसैंपत्वस्याप्रयोजकत्वात् । यथैव हि सौंधननिर्भासिनो ज्ञानस्यान्यत्र व्यभिचारदर्शनात्सत्यासत्यविचारणायां प्रेक्षावतां प्रवृत्तिस्तथा तेस्यापि विशेषाभावात् ।
किञ्च, समानकालमर्थक्रियाज्ञानं पूर्वज्ञानप्रामाण्यव्यवस्थाप-२० कम् , भिन्नकालं वा? यद्येककालम् । पूर्वज्ञानविषयम् , तदविषयं
- १ अर्थक्रियाशानोत्पत्तौ पूर्वज्ञानस्य प्रामाण्यं पूर्वज्ञानप्रामाण्ये च प्रवृत्तिः प्रवृत्तौ चार्थक्रियाशानोत्पत्तिरिति। २ किञ्च। ३ प्रामाण्य । ४ जैनैः। ५ शानस्य । ६ स्वविषये। ७ स्वविषये। ८ द्वितीयज्ञानस्य । ९ शानस्य । १० आद्यशानेन । ११ न घटते। १२ जैनः। १३ अप्रतीतेः । १४ जलज्ञानस्य । १५ जललक्षण । १६ मरीचिकाचके। १७ साधनशानप्रामाण्ये । १८ खानपानादिलक्षण । १९ स्वप्रामाण्यनिश्चये। २०. प्रथमतृतीयशान । २१ स्नानादिक्रियायाः साधनं जलादि. तस्मिन् । २२ युक्ता । २३ अन्यानपेक्षत्वं प्रति । २४ अर्थक्रियायाः। २५ जल। २६ मरीचिकायां । २७ जाग्रद्दशायां सुप्तावस्थायां च सत्यासत्यत्वस्य । २८ स्वप्नदशायां व्यभिचारदर्शनस्य । २९ संवादकं । ३० बसः। ३१ बसः । ३२ बसः ।
1 "कारिकेयं तस्वसंग्रहे (पृ० ७५७) पूर्वपक्षरूपतया धृताऽस्ति ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org