________________
१५८
प्रमेयकमलमार्तण्डे [प्रथमपरि० चोदनाजनिता तु बुद्धिरपौरुषेयत्वेन दोषरहिताचोदनावाक्यादुपजायमाना लिङ्गाप्तोत्यक्षबुद्धिवत्वतः प्रमाणम् । तदुक्तम्"चोदनाजनिता बुद्धिः प्रंमाणं दोषवर्जितैः। कारणैर्जन्यमानत्वाल्लिङ्गाप्तोत्यक्षबुद्धिवत् ॥ १॥"
[मी० श्लो० सू०२ श्लो० १८४] तन्न शप्तौ पैरापेक्षा।
नापि स्वकार्ये; तत्रापि हि किं तत्संवादप्रत्ययमपेक्षते, कारणगुणान् वा? प्रथमपक्ष चक्रकप्रसङ्गः-प्रमाणस्य हि स्वकार्ये प्रवृत्तौ सत्यामर्थक्रियार्थिनां प्रवृत्तिः, तस्यां चार्थक्रियाज्ञानोत्पत्ति१० लक्षणः संवादः; तत्सद्भावे च संवादमपेक्ष्य प्रमाणं स्वकार्येऽर्थपरिच्छेदलक्षणे प्रवर्त्तत । भाविनं संवादप्रत्ययमपेक्ष्य तत्तत्र प्रवर्त्तते; इत्यप्यनुपपन्नम् ; तस्यासत्त्वेन स्वकार्ये प्रवर्त्तमानं विज्ञानं प्रति सहकारित्वायोगात्।।
द्वितीयपक्षेऽपि गृहीताः स्वकारणगुणाः तस्य स्वकार्ये प्रवर्त१५मानस्य सहकारित्वं प्रतिपद्यन्ते, अगृहीता वा? न तावदुत्तरः पक्षः; अतिप्रंसङ्गात् । प्रथमपक्षेऽनवस्था-स्वकारणगुणज्ञानापेक्षं हि प्रमाणं खकार्ये प्रवर्तेत तदपि वकारणगुणज्ञानापेक्षं प्रमाणकारणगुणग्रहणलक्षणे स्वकार्ये प्रवर्तेत तदपि च खकारणगुण
शानापेक्षमिति । तस्य स्वकारणगुणज्ञानानपेक्षस्यैव प्रमाणकारण२०गुणपरिच्छेदलक्षणे स्वकार्ये प्रवृत्तौ प्रथमस्यापि कारणगुणज्ञाना
नपेक्षस्यार्थपरिच्छेदलक्षणे स्वकार्ये प्रवृत्तिरस्तु विशेषाभावात् । तदुक्तम्
"जातेपि यदि विज्ञाने तावन्नार्थोऽवधार्यते । यावत्कारणशुद्धत्वं न प्रेमाणान्तराद्गतम् ॥१॥
१ वेद । २ इति गुणव्यापाराभावः। ३ प्रत्येकं सम्बध्यते। ४ स्वतः । ५ अनाप्तोक्तत्वलक्षण । ६ वेदवाक्यः। ७ संवादानुमान। ८ प्रामाण्यस्य । ९ परापेक्षं प्रामाण्यं न । १० प्रामाण्यं कर्तृ। ११ प्रामाण्यलक्षणस्य धर्मस्यात्रान्तर्भावाद्धर्मिप्रधानोयं निर्देशः। १२ अर्धपरिच्छित्तिरूपे। १३ नृणाम् । १४ अविद्यमानत्वेन । १५ अर्थपरिच्छित्तिलक्षणे। १६ प्रमाणस्य । १७ सन्तानान्तरलोचनगुणा अपि सहकारिणो भक्न्तु अगृहीतत्वाविशेषात् । १८ इन्द्रियनैर्मल्यादि । १९ भवच्चक्षुनिर्मलमिति शब्दः परोक्ष इति । २० प्रमाणकारणगुणशान । २१ शब्द। २२ आप्तोक्तत्वलक्षण। २३ प्रमाणकारणगुणशानस्य । २४ अनपेक्षत्वस्य । २५ प्रथमशानस्य । २६ चक्षुः । २७ नैर्मल्यं । २८ शब्दशानात् । २९ ज्ञातम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org