________________
सू० १।१३ ]
प्रामाण्यवादः
१५१
ज्ञप्तावप्यनभ्यासदशायां न प्रामाण्यं स्वतोऽवतिष्ठते, सन्देहविपर्ययाक्रान्तत्वात्तद्वदेव | अभ्यासदशायां तूर्भयमपि स्वतः । नापि प्रवृत्तिलक्षणे स्वकार्ये तत्स्वतोऽवतिष्ठते, स्वग्रहेण सापेक्षत्वादप्रामाण्यवदेव । तद्धि ज्ञातं सन्निवृत्तिलक्षणस्वकार्यकारि नान्यथा ।
नैनु गुणविशेषणविशिष्टेभ्यः इत्यु (त्ययुक्तम् ; तेषां प्रमाणतोऽनुपलम्भेनासत्त्वात् । न खलु प्रत्यक्षं तान्प्रत्येतुं समर्थम् ; अतीन्द्रियेन्द्रियाप्रतिपत्तौ तगुणानां प्रतीतिविरोधात् । नाप्यनुमानम् ; तस्य प्रतिबन्धबलेनोत्पत्यभ्युपगमात् । प्रतिबन्धश्चेन्द्रियगुणैः सह लिङ्गस्य प्रत्यक्षेण गृह्येत, अनुमानेन वा । न तावत्प्रत्यक्षेण, १० गुणाग्रहणे तत्सम्बन्धग्रहणविरोधात् । नप्यनुमानेन, अस्यापि गृहीतसम्बन्धलिङ्गप्रभवत्वात् । तंत्राप्यनुमानन्तरेण सम्बन्धग्रहणेऽनवस्था । प्रथमानुमानेनान्योन्याश्रयः । अप्रतिपन्नसम्बन्धप्रभवं चानुमानं न प्रेमाणमतिप्रसङ्गात् ।
किञ्च, स्वभावहेतोः, कार्यात्, अनुपलब्धेर्वा तत्प्रभवेत् ? न १५ तावत्स्वभावात्, तस्य प्रत्यक्षगृहीतेर्थे व्यवहारमात्रप्रवर्तनफलत्वादृक्षादौ शिशपात्वादिवत् । न चात्यक्षाऽक्षाश्रितगुणलिसम्बन्धः प्रत्यक्षतः प्रतिपन्नः । कार्यहेतो सिद्धे कार्यकारणभावे कारणप्रतिपत्तिहेतुत्वम्, तत्सिद्धिश्चाध्यक्षानुपलम्भप्रमाणसम्पाद्या । न चेन्द्रियगुणाश्रित सम्बन्ध ग्राहकत्वेनाध्यैक्षप्रवृत्तिः, येन तत्का - २०
१ सत्यमसत्यमिति । २ प्रामाण्यमप्रामाण्यम् । ३ अभ्यासदशायां विषयं प्रति गमनम् । ४ सत्यत्व । ५ स्वस्य ज्ञानेन । ६ प्रामाण्यस्य । ७ अर्थव्यभिचारित्व । ८ असत्यमिदमिति । ९ विषयं प्रत्यगमनम् । १० अज्ञातम् । ११ अभ्यासदशायां स्वतः । १२ मीमांसकः । १३ चक्षुरादिभ्यः । १४ अपरिज्ञाने । १५ प्रामाण्यं विज्ञानकारणातिरिक्तकारणप्रभवं विज्ञानान्यत्वे सति कार्यत्वादप्रामाण्यवत् । १६ अविनाभाव । १७ प्रामाण्यस्य । १८ लिङ्गस्य । १९ प्रामाण्यं गुणनियतं तदन्वयव्यतिरेकानुविधायित्वात् । २० द्वितीयानुमाने । २१ तदन्वयव्यतिरेकानुविधायित्वं गुणसद्भावाविनाभावि तस्मि ( गुणे ) न्सत्येवोत्पद्यमानत्वात् । २२ अगृहीत । २३ अनुमानाभासम् । २४ तत्पुत्रत्वादेरुत्पन्नस्य प्रामाण्यप्रसङ्गात् । २५ वृक्षोयं शिंशपात्वात् । २६ हेतोः । २७ वृक्षोयं शिशपात्वात् । २८ ता । २९ प्रामाण्यं ( कार्य ) साध्येन ( गुणेन ) सम्बन्धि अनुमानकार्यत्वाद्धूमवत् । ३० हेतुः कार्यम् । ३१ सम्बन्धः कारणम् । ३२ अन्वयव्यतिरेकाभ्याम् । ३३ असत्य सद्भाव | ३४ कार्यकारणभाव । ३५ ता ।
1 " हि चक्षुरादिषु गुणा नाम केचिदुपलभ्यन्ते ।"
५
Jain Educationa International
मी० श्रो० न्यायरत्ना० पृ० ५९ ।
For Personal and Private Use Only
www.jainelibrary.org