________________
१५२
प्रमेयकमलमार्तण्डे [प्रथमपरि० यत्वेन कस्यचिल्लिङ्गस्याप्यध्यक्षतः प्रतिपत्तिः स्यात् । अनुपलब्धेस्त्वेवंविधे विषये प्रवृत्तिरेव न सम्भवत्यभावमात्रसाधकत्वेनास्याः व्यापारोपगमात् ।
न चात्र लिङ्गमस्ति । यथार्थोपलब्धिरस्तीत्यप्यसङ्गतम् ; यतो ५यथार्थत्वायथार्थत्वे विहाय यदि कार्यस्योलंब्ध्याख्यस्य स्वरूपं निश्चितं भवेत्तदा यथार्थत्वलक्षणः कार्यविशेषः पूर्वस्मात्कारेणकलापादनिष्पद्यमानो गुणाख्यं स्वोत्पत्तौ कारणान्तरं परिकल्पयेत् । यदा तु यथाथैवोपलब्धिः स्खयो(स्खो)त्पादककारणकलापा
नुमापिका तदा कथं तद्व्यतिरिक्तगुणसद्भावः? अयथार्थत्वं तूपल१०ब्धेर्विशेषः पूर्वस्मात्कारणसमूहादनुत्पद्यमानः खोत्पत्तौ सामग्र्यन्तरं परिकल्पयतीति परतोऽप्रामाण्यं तस्योत्पत्तौ दोषापेक्षत्वात् ।
न चेन्द्रिये नैर्मल्यादिरेव गुणः; नैर्मल्यं हि तत्स्वरूपम् , न तु खरूपाधिको गुणः तथा व्यपदेशस्तु दोषाभावनिबन्धनः । तथाहि-कामलादिदोषासत्त्वान्निर्मलमिन्द्रियं तत्सत्वे सदोषम् । १५मनसोपि निद्राद्यभावः स्वरूपं तत्सद्धावस्तु दोषः । विषयस्यापि निश्चलत्वादिखरूपं चलत्वादिस्तु दोषः। प्रमातुरपि क्षुधाद्यभावः स्वरूपं तत्सद्भावस्तु दोषः।
न चैतद्वक्तव्यम्-'विज्ञानजनकानां स्वरूपमयथार्थोपलब्ध्या समधिगतम् यथार्थत्वं तु पूर्वस्मात्कारणकलापादनुत्पद्यमानं २० गुणाख्यं सामय्यन्तरं परिकल्पयति' इति; थैतोऽत्र लोकः प्रमा
णम् । न चात्र मिथ्याज्ञानात्कारणस्वरूपमात्रमेवानुमिनोति किन्तु सम्यग्ज्ञानात् । किञ्च, अर्थतथाभावप्रकाशनरूपं प्रामाण्यम्, तस्य चक्षु.
१ प्रामाण्यस्य । २ सम्बन्ध। ३ ता। ४ किञ्च । ५ नयनगुणे साध्ये। ६ नयने गुणाः सन्ति यथार्थोपलब्धेः। ७ विशेषरूपे। ८ कार्यमात्रस्य । ९ उपलम्भसामान्यस्य । १० सत्य । ११ कर्ता । १२ शुद्धं चक्षुः । १३ अन्यत् । १४ इन्द्रिय। १५ इन्द्रिय। १६ इन्द्रिय । १७ का। १८ निर्मलं चक्षुरिति । १९ इन्द्रियस्वरूपम् । २० पटादिपदार्थस्य । २१ आसन्नत्वादि । २२ वक्ष्यमाणम् । २३ जैनः। २४ चक्षुरादीनां । २५ लिङ्गेन । २६ अयथार्थोपलब्धिजनकादि. न्द्रियात् । २७ विशानसामग्यनुमाने। २८ चक्षुरादि। २९ प्रामाण्यं विज्ञानकारण (चक्षुरादि ) प्रभवं विज्ञानस्वभावत्वात् विज्ञानस्वरूपवत् । ३० प्रमाणस्य कार्यातथाभावप्रकाशनरूपं प्रामाण्यम् ।
1 "वैमल्यं गुण इति चेत् । नन्वेवं दोषामावो गुणः ।"
मी. श्वो० न्यायरता० पृ० ५९ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org