________________
१५०
प्रमेयकमलमार्तण्डे
[प्रथमपरि०
ये तु सकलप्रमाणानां स्वतः प्रामाण्यं मन्यन्ते तेऽत्र प्रष्टव्याःकिमुत्पत्तौ, ज्ञप्तौ, स्वकार्ये वा स्वतः सर्वप्रमाणानां प्रामाण्यं प्रार्थ्यते प्रकारान्तरासम्भवात् ? यद्युत्पत्तौ, तत्रापि "स्वतः
प्रामाण्यमुत्पद्यते' इति कोर्थः ? किं कारणमन्तरेणोत्पद्यते, वसा५मग्रीतो वा, विज्ञानमात्रसामग्रीतो वा गत्यन्तराभावात् । प्रथमपक्षे-देशकाल नियमेन प्रतिनियंतप्रमाणाधारतया प्रामाण्यप्रवृत्तिविरोधः स्वतो जायमानस्यैवंरूपत्वात् , अन्यथा तदयोगात्। द्वितीयपक्षे तु सिद्धसाध्यता, स्वसामग्रीतः सकलभावानामुत्पत्त्य
भ्युपगमात् । तृतीयपक्षोप्यविचारितरमणीयः; विशिष्टंकार्यस्या१० विशिष्टकारणप्रभवत्वायोगात् । तथा हि-प्रामाण्यं विशिष्टकारण
प्रभवं विशिष्टकार्यत्वादप्रामाण्यवत् । यथैव प्रामाण्यलक्षणं विशिष्टं कार्य काचकामलादिदोषलक्षणविशिष्टेभ्यश्चक्षुरादिभ्यो जायते तथा प्रामाण्यमपि गुणविशेषणविशिष्टेभ्यो विशेषाभावात्।
१ भाट्टाः। २ समर्थेत। ३ आत्मवाचक आत्मीयवाचकश्च । ४ आत्मवाचकपक्षे। ५ आत्मीयवाचकपक्षे। ६ आत्मीयपक्षे। ७ घटादि। ८ तदविरोधे । ९ कारणमन्तरेण प्रवृत्तेरयोगात् । १० प्रामाण्यस्य । ११ ज्ञानेन व्यभिचारः । १२ प्रामाण्यं न विशानसामग्रीजन्यं विज्ञानान्यत्वे सति कार्यत्वात् । प्रामाण्यविज्ञाने भिन्नसामग्रीजन्ये भिन्नकार्यत्वाद् घटपटादिवत् । १३ विशिष्टकार्यत्वस्य ।
तच्च स्याद्वादिनामेव स्वार्थनिश्चयनात् स्थितम् ।
नतु स्वनिश्चयोन्मुक्तनिःशेषज्ञानवादि नाम् ॥” तत्त्वार्थश्लो. पृ० १७७ । "इति स्थितमेतत्-प्रमाणादिष्टसंसिद्धिः अन्यथाऽतिप्रसङ्गतः । प्रामाण्यं तु स्वतः सिद्धमभ्यासात्परतोऽन्यथा ॥" प्रमाणप० पृ० ६३ ।
"आभ्यासिकं यथा ज्ञानं प्रमाणं गम्यते स्वतः । मिथ्याज्ञानं तथा किञ्चिदप्रमाणं स्वतः स्थितम् ॥"
तत्त्वसं० कारि० ३१००। "नहि बौद्धैः एषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टः, अनियमपक्षस्येष्टत्वात् । तथाहि-उभयमप्येतत् किञ्चित् स्वतः किंचित् परत इति......।"
__तत्वसं. पं० पृ० ८११ । 1 "तत्कि स्वतो ज्ञायते, स्वतो वा जायते, स्वतो वा व्याप्रियते ?"
प्रश० कन्दली पृ० २१८ । 2 "तत्रापि स्वतः कारणमन्तरेण आत्मनैव प्रामाण्यमुत्पद्यते इत्यर्थः स्याद, आत्मनो वा सकाशात् , आत्मीयायाः सामग्रीतो वा ?" न्यायकुमु० पृ० १९९ । 3 "प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् मप्रमावत् ।"
प्रश० किरणा० पृ० ३१८ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org