SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १३८ प्रमेयकमलमार्तण्डे [प्रथमपरि० प्रथमपक्षे-महेश्वरस्यासर्वज्ञत्वप्रसङ्गस्तज्ज्ञानेन तस्याऽवेद्यत्वात् । आत्मसमवेतानन्तरशौनवेद्यत्वाभावे च "खसमवेतानन्तरज्ञानवेद्यमर्थज्ञानम्" [ ] इति ग्रन्थविरोधो मीमांसर्कंमतँप्रवेशश्च स्यात् । ज्ञानान्तरापेक्षया तस्य ५ कर्मत्वाविरोधे च-स्वरूपापेक्षयाप्यविरोधोऽस्तु सहस्रकिरणवत्वपरोद्योतनस्वभावत्वात्तस्य । कर्मत्ववंच ज्ञानक्रियातोऽर्थान्तरस्यैव करणत्वदर्शनात्तस्यापि तत्र विरोधोऽस्तु विशेषाभावात् । तथा च 'ज्ञानेनाहमर्थ जानामि' इत्यत्र ज्ञानस्य करणतया प्रतीतिर्न स्यात् । १० विशेषणज्ञानस्य करणत्वाद्विशेष्यज्ञानस्य तत्फलत्वेन क्रिया त्वात्तयोर्भेद एवेत्यपि श्रद्धामात्रम् ; 'विशेषणज्ञानेन विशेष्यमहं जानामि' इति प्रतीत्यभावात् । 'विशेषेणज्ञानेन हि 'विशेषण विशेष्यज्ञानेन च विशेष्यं जानामि' इत्यखिलजनोऽनुमन्यते । किञ्च, अनयोर्विषयो भिन्नः, अभिन्नोवा।प्रथमपक्षे-विशेषणवि१५शेष्यज्ञानद्वयपरिकल्पना व्यर्थाऽर्थभेदाभावाद्धारावाहिविज्ञानवत्। द्वितीयपक्षे चौनयोः प्रमाणफलव्यवस्थाविरोधोऽर्थान्तरविषयत्वाद् घटपटज्ञानवत् । न खलु घटज्ञानस्य पटशानं फलम् । न चॉन्यत्र व्यापृते विशेषणशाने ततोऽर्थान्तरे विशेष्ये परिच्छित्ति युक्ता । न हि खदिरादावुत्पतननिय(प)तनव्यापारवति पैरशौ २० ततोऽन्यत्र धवादौ छिदिक्रियोत्पद्यते इत्येतत्प्रातीतिकम् । लिङ्ग १ अस्मदादिशानस्य । २ प्रथमशान । ३ द्वितीयशानेन । ४ किञ्च । ५ योगस्य । ६ करणज्ञानं न प्रत्यक्षं कर्मत्वेनाप्रतीयमानत्वात्। ७ ज्ञानान्तरेणाप्यप्रत्यक्षत्वात् । ८ स्वरूपापेक्षया कर्मत्वविरोधं ब्रमः । ज्ञानान्तरापेक्षया किं कर्मत्वविरोधोस्ति । ९ परेणाङ्गीकृते। १० किञ्च । ११ कुठारादेः। १२ ज्ञानाद्भिन्नस्य करणत्वस्याविशेषात्कर्मत्ववत् । १३ शानकरणत्वविरोधे सति । १४ करणशानेन । १५ पक्षे । १६ लोके। १७ करणशानक्रियाशानयोः। १८ नीलादिशानेन दण्डादिशानेन वा। १९ जानामि । २० उत्पलादिकं दण्डीत्यादिकं । २१ ता। २१ विशेषणशानविशेष्यज्ञानयोः। २३ विशेषणशान विशेष्यज्ञानयोः। २४ भिन्नविषयत्वात् । २५ किश्च । २६ नीलादौ विशेषणे। २७ सति । २८ उत्पलादौ । २९ ज्ञानं । ३. कथं । ३१ सति। ३२ धूमादिशानस्य । "प्रमाणफलते बुद्ध्योर्विशेषणविशेष्योः । यदा तदापि पूर्वोक्ताऽभिन्नार्थत्वनिराक्रिया ॥" मीमांसाशो० पृ० १५६ । 1 "विशेषणशानं करणं विशेष्यज्ञानं तत्फलत्वात् ज्ञानक्रियेति चेत्, स्यादेवं यदि विशेषणशानेन विशेष्यं जानामीति प्रतीतिरुत्पद्यते ।" स्या. रत्ना० पृ० २२८ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy