________________
सू० १११०] ज्ञानान्तरवेद्यज्ञानवादः
१३९ ज्ञानस्यानुमानज्ञाने व्यापारदर्शनादत्राप्यविरोध इत्यप्यसम्भाव्यं तद्वत्क्रमभावेनात्र ज्ञानद्वयानुपलब्धेः, एकमेव हि तेयोाहकं ज्ञानमनुभूयते । न चात्र विषयभेदाज्ज्ञानभेदकल्पना; समानेन्द्रियग्राह्ये योग्यदेशावस्थितेर्थे घटपटादिवदेकस्यापि ज्ञानस्य व्यापाराविरोधात् । न च घटादावपि ज्ञानभेदः संमानगुणानां युगपद्भा-५ वानभ्युपगमात् । क्रमभावे च प्रतीतिविरोधः सर्वज्ञाभावश्च । युगपद्भावाभ्युपगमे चानयोः सव्येतरगोविषाणवत्कार्यकारणभावाभावः । विशेषणविशेष्यज्ञानयोः क्रमभावेप्याशुवृत्त्या योगपद्याभिमानो यथोत्पलपत्रशतच्छेद इत्यप्यसङ्गतम्; निखिलभावानां क्षणिकत्वप्रसङ्गात्सर्वत्रैकत्वाध्यवसायस्याशुवृत्तिप्रवृत्त-१० त्वात् । प्रत्यक्षप्रतिपन्नस्यास्य दृष्टान्तमात्रेण निषेधविरोधाँच्च, अन्यथा शुक्ले शङ्ख पीतविभ्रमदर्शनात्सुवर्णेपि तद्विभ्रमः स्यात् । मूर्तस्य सूच्यग्रस्यौत्तराधर्यस्थितमुत्पलपत्रशतं युगपत्प्रानुमशक्तेः क्रमच्छेदेप्याशुवृत्त्या योगपद्याभिमानो युक्तः, पुंसस्तु वावरण. क्षयोपशमापेक्षस्य युगपत्स्वपरप्रकाशनस्वभावस्य समग्रेन्द्रियस्या-१५ प्राप्तार्थग्राहिणः स्वयममूर्तस्य युगपत्स्वविषयग्रहणे विरोधाभावात् किन्न युंगपज्ज्ञानोत्पत्तिः ?
न च मैंनोपि सूच्यग्रवन्मूर्त्तमिन्द्रियाणि तूत्पलपत्रवत्परस्परपरिहारस्थितानि युगपत्प्राप्तुं न समर्थमिति वाच्यम् तथाभूतस्यास्थाऽसिद्धेः। युगपज्ज्ञानोत्पत्तिविभ्रमात्तत्सिद्धौ परस्पराश्रयः-२०
१ अग्न्यादिशाने । २ विशेष्यपरिच्छित्तौ। ३ विशेषणशानव्यापारस्य । ४ लिङ्गलिङ्गिशानस्य । ५ नीलोत्पलयोर्विशेषणविशेष्ययोः । ६ एक। ७ अग्न्यादि । ८ ज्ञानानां। ९ नैयायिकानामनभ्युपगमात् । १० परैः। ११ कृत्वा। १२ कल्पना। १३ कथं । १४ घटपटादिपदार्थे । १५ एकोयमित्यध्यवसायः। १६ विशेषणविशेष्यज्ञानयोगपद्यस्य । १७ किञ्च । १८ अविरोधे। १९ विशेषणविशेष्यरूप । २० कर्तृ । २१ कर्मरूपाणि । २२ परेण ।
1"न चात्र विषयभेदाज्शानभेदकल्पनोपपत्तिमती; समानेन्द्रियग्राह्ये योग्यदेशावस्थितेऽर्थे घटपटादिवदेकस्यापि शानस्य व्यापाराविरोधात् ।" स्या. रत्ना० पृ० २३०॥
2 "मूर्तस्य सूच्यग्रस्यौत्तराधर्यव्यवस्थितमुत्पलपत्रशतं युगपद् व्याप्तुमशक्तेः क्रमभेदेऽप्याशुवृत्तः यौगपद्याभिमान इति युक्तम् , आत्मनस्तु क्षयोपशमसव्यपेक्षस्य युगपत् स्वपरप्रकाशनस्वभावस्य स्वयममूर्तस्याप्राप्ताथग्राहिणो युगपत् स्वविषयग्रहणे न कश्चिद्विरोध इति किन्न युगपज्ज्ञानोत्पत्तिः।" सन्मति० टी० पृ० ४७८ ।।
3 "नच मनोऽपि सूच्यावन्मूर्त्तमिन्द्रियाणि तूत्पलपत्रवत् परस्परपरिहारस्थित. स्वरूपाणि न युगपद्याप्तं समर्थमिति न युगपज्ज्ञानोत्पत्तिः, तथाभूतस्य तस्यैवाडसिद्धः।"
सन्मति० टी० पृ० ४७८ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org