________________
ज्ञानान्तरवेद्यज्ञानवादः
सू० १1१० ]
१३७
स्वरूपे विरोधान्निस्स्वरूपत्वानुषङ्गः । विरोधस्य द्विष्ठत्वाच्च न क्रियायाः स्वात्मनि विरोधः । क्रियावदात्मा तस्याः स्वात्मा इत्यप्यसङ्गतम्, क्रियावत्येव तस्याः प्रतीतेस्तत्र तद्विरोधासिद्धेः' अन्यथा सर्वक्रियाणां निराश्रयत्वं सकलद्रव्याणां चाऽक्रियत्वं स्यात् । न चैवम्; कॅर्मस्थायास्तस्याः कर्मणि कर्तृस्थायाश्च कर्तरि ५ प्रतीयमानत्वात् । किञ्च तंत्रोत्पत्तिलक्षणा क्रिया विरुध्यते, परिस्यन्दात्मिका, धात्वर्थरूपा, ज्ञप्तिरूपा वा ? यद्युत्पत्तिलक्षणा, सा विरुध्यताम् । नखलु 'ज्ञानमात्मानमुत्पादयति' इत्यभ्यनुजानीमः स्वसामग्रीविशेषवशात्तदुत्पत्त्यभ्युपगमात् । नापि परिस्पन्दात्मिकासौ तत्र विरुध्यते, तस्याः द्रव्यवृत्तित्वेन ज्ञाने सत्त्वस्यैवास - १० म्भवात् । अथ धात्वर्थरूपाः सा न विरुद्धी 'भवति तिष्ठति' इत्यादिक्रियाणां क्रियावत्येव सर्वदोपलब्धेः । शैप्तिरूपक्रियायास्तु विरोधो दूरोत्सारित एव स्वरूपेण कैस्यचिद्विरोधासिद्धेः, अन्यथा प्रदीपस्यापि स्वप्रकाशनविरोधस्तद्धि स्वकारणकलापात्स्वपरप्रकाशात्मकमेवोपजायते प्रदीपवत् ।
ज्ञानक्रियायाः कर्मतया स्वात्मनि विरोधस्ततोऽन्यत्रैव कर्मत्वदर्शनादित्यप्यसमीक्षिताभिधानम्; प्रदीपस्यापि स्वप्रकाशनविरोधानुषङ्गात् । यदि चैकत्रं दृष्टो धर्मः सर्वत्राभ्युपगम्यते, तर्हि घटे प्रभास्वरौष्ण्यादिधर्मानुपलब्धेः प्रदीपेप्यस्याभावप्रसङ्गः, रथ्यापुरुषे वाऽसर्वज्ञत्वदर्शनान्महेश्वरेप्यसर्वज्ञत्वानुषङ्गः । अत्र २० वस्तुवैचित्र्यसम्भवे ज्ञानेन किमपराद्धं येनात्रोंसो नेष्यते ?
किञ्च ज्ञानान्तरापेक्षया तंत्र कर्मत्वविरोधः, स्वरूपापेक्षया वा ?
१ अभाव । २ अर्ध । ३ स्वरूप । ४ ओदनं पचति देवदत्तः । ५ न विरोधः । ६ ग्रामं गच्छति देवदत्तः । ७ ज्ञाने । ८ भवता परेण । ९ परेण । १० वयं जैनाः । ११ स्वात्मनि । १२ देवदत्तादौ । १३ जानाति । १४ स्वात्मनि । १५ अर्धस्य । १६ अस्मदादिशान | १७ कुतः | १८ घटादौ । १९ किञ्च । २० स्वच्छिदिक्रियां प्रति कर्मत्वविरोधलक्षणः । २१ खड्डादौ । २२ ज्ञाने । २३ भास्वरौष्ण्यसर्वशत्वलक्षण | २४ केन । २५ स्वपरप्रकाशरूपों वैचित्र्यसम्भवः । २६ परेण । २७ ज्ञानक्रियायां ।
1 " का पुनः स्वात्मनि क्रिया विरुद्धा परिस्पन्दरूपा धात्वर्थरूपा वा ? तत्त्वार्थको० पृ० ४२ । स्या० रा० पृ० २२८ । " का पुनः स्वात्मनि क्रिया विरुध्यते ज्ञप्ति - रुत्पत्तिर्वा ?" आप्तप० पृ० ४७ । स्याद्वादमं० पृ० ९३ । “उत्पत्तिरूपा, परिस्पन्दात्मिका, धात्वर्थस्वभावा, इप्तिलक्षणा वा ?" न्यायकुमु० पृ० १८७ ।
2 “किंच, ज्ञानान्तरापेक्षया तत्र कर्मत्वविरोधः स्वरूपापेक्षया वा ?" न्यायकुमु०
पृ० १८८ ।
Jain Educationa International
१५
For Personal and Private Use Only
www.jainelibrary.org