________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० सन्निकर्षजं प्रत्यक्षत्वे सति ज्ञानत्वात् चक्षुरादिप्रभवरूपादिशानवत्' इत्यनुमानात्तत्सिद्धिरित्यभिधीयते, तदप्यभिधानमात्रम् । हेतोरप्रसिद्धविशेषणत्वात् । न हि घटादिज्ञानज्ञानस्याध्यक्षत्वं सिंद्धम्, इतरेतराश्रयानुषङ्गात्-मनःसिद्धौ हि तस्याध्यक्षत्व५ सिद्धिः, तत्सिद्धौ च सविशेषणहेतुसिद्धेर्मनःसिद्धिरिति। विशेष्यासिद्धत्वं च न खलु घटज्ञानाद्भिन्नमन्यज्ज्ञानं तद्राहकमनुभूयते। मुखादिसंवेदनेने व्यभिचारश्च; तद्धि प्रत्यक्षत्वे सति ज्ञानं न तजन्यमिति । अस्यापि पक्षीकरणान्न दोष इत्ययुक्तम् ; व्यभि
चारविषयस्य पक्षीकरणे न कश्चिद्धतुर्व्यभिचारी स्यात् । अनित्यः १० शब्दः प्रमेयत्वाद् घटवत्' इत्यादेप्यात्मादिना न व्यभिचारस्तस्य पक्षीकृतत्वात् । प्रत्यक्षादिबाधो यत्र समाना । न हि 'घटादिवत्सुखाद्यविदितखरूपं पूर्वमुत्पन्नं र्पुनरिन्द्रियेण सम्बध्यते ततो ज्ञानं ग्रहणं च' इति लोके प्रतीतिः, प्रथममेवेष्टानिष्टविषयानु
भवानन्तरं स्वप्रकाशात्मनोऽस्योदयप्रतीतिः। १५ वात्मनि क्रियाविरोधान्मिथ्येयं प्रतीतिः, न हि सुतीक्ष्णोपि
खड्ग आत्मानं छिनत्ति, सुशिक्षितोपि वा नटबटुः स्वं स्कन्धमारोहतीत्यप्यसमीचीनम्; स्वात्मन्येव क्रियायाः प्रतीतेः । खात्मा हि क्रियायाः स्वरूपम् , क्रियावदात्मा वा ? यदि स्वरूपम् , कथं तस्यास्तत्र विरोधः खरूपस्याविरोधकत्वात्? अन्यथा सर्वभावानां
१ अनुमानशानेन व्यभिचारस्तत्परिहारार्थ प्रत्यक्षत्वे सति ग्रहणम् । २ अन्यथा । ३ हेतोः। ४ घटज्ञान । ५ इन्द्रियार्थसन्निकर्षजं न भवति। ६ प्रमेयेन । ७ आत्मनोऽनित्यत्वे सुखादिसंवेदनस्येन्द्रियार्थसन्निकर्षजत्वे च । ८ पश्चात् । ९ मानसं करणरूपम् । १० सुखादिसंवेदनस्य । ११ प्रकाशलक्षणायाः। १२ ता । १३ आत्मार्थवाचकस्वशब्दपक्षे। १४ आत्मीयार्थवाचकस्वशब्दपक्षे। १५ विरोधकत्वे । १६ घटादि । ___ 1 "न; अस्य हेतोरप्रसिद्धविशेषणत्वात् , नहि घटादिज्ञानज्ञानस्य अध्यक्षत्वं सिद्धम् . इतरेतराश्रयत्वात् ।"
सन्मति० टी० पृ० ४७६ 2 "सुखसंवेदनेन व्यभिचारी च; तथाहि-तत्संवेदनमध्यक्षत्वे सति ज्ञानं न च तज्जन्यमिति व्यभिचारः । अथास्यापि पक्षीकरणाददोषः, तथाहि-सुखादिसंवेदनमिन्द्रियार्थसन्निकर्षजम् अध्यक्षज्ञानत्वात् चक्षुरादिप्रभवरूपादिवेदनवत्, सुखादिर्वा मिनज्ञानवेद्यः ज्ञेयत्वात् घटवत् ।"
सन्मति० टी० पृ. ४७६ 3 "स्वात्मनि वृत्तिविरोधात् , नहि तदेव अंगुल्यग्रं तेनैव अंगुल्यग्रेण स्पृश्यते, सैवासिधारा तयैवासिधारया छिद्यते ।" स्फुटार्थ-अभिध० पृ० ७८
4 "स्वात्मा हि क्रियायाःस्वरूपं क्रियावदात्मा वा ?" आप्तप० पृ० ४७ । न्याय-- कुमु० पृ० १८८ । स्था० रत्ना० पृ. २२९ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org