________________
भानानुत्पत्तिसिसिङ्गश्च-'विशावास्याः प्रसिद्धि
सू० ११९] स्वसंवेदनज्ञानवादः
१२७ दीनामन्यतमेन सन्निकर्षसमये रूपादिज्ञानवन्मानसं सुखादिज्ञानं किन्न स्यात् सम्बन्धसम्बन्धसद्भावात् ? तथाविधादृष्टस्याभावाञ्चेत् ; अदृष्टकृता तर्हि युगपद् ज्ञानानुत्पत्तिस्तदेवानुमापयेन्न मनः।
किञ्च, 'युगपद् ज्ञानानुत्पत्तेर्मनःसिद्धिस्तुतश्चास्याः प्रसिद्धिः' इत्यन्योन्याश्रयः। चक्रकप्रसङ्गश्च-विज्ञानसिद्धिपूर्विका हि युगपद् ५ ज्ञानानुत्पत्तिसिद्धिः, तत्सिद्धिर्मनःपूर्विका' इति । तस्मात्तत्सहकारि प्रगुणं मनो लिङ्गमित्यप्यसिद्धम् ।
अस्तु वा किञ्चिल्लिङ्गम् , तथापि-ज्ञानस्याप्रत्यक्षतैकान्ते तत्सम्बन्धासिद्धिः। न चासिद्धसम्बन्ध(न्धं) लिङ्गं कस्यचिद्गमकमतिप्रसङ्गात् । ततः परोक्षतैकान्ताग्रहग्रहाभिनिवेशपरित्यागेन 'ज्ञानं १० खव्यवसायात्मकमर्थज्ञप्तिनिमित्तत्वात् आत्मवत्' इत्यभ्युपगन्तव्यम् । नेत्रालोकादिनानेकान्त इत्यप्ययुक्तम्। तस्योपचारतोऽर्थज्ञप्तिनिमित्तत्वसमर्थनात्, परमार्थतः प्रमातृप्रमाणयोरेव तन्निमित्तत्वोपपत्तेरित्यलमतिप्रसङ्गेन । एतेने 'आत्माऽप्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात्करणशानवत् १५
१ मनसा सम्बद्ध आत्मनि सुखादेः समवायसम्बन्धः सम्बन्धसम्बन्धः। २ युगपज्शानोत्पादकस्य । ३ करणशानं कर्म । ४ करणशान । ५ शप्ति । ६ विशानसिद्धिः। ७ इन्द्रियार्थ । ८ अविनाभाव । ९ भा । १. लिङ्गस्य । ११ अज्ञात । १२ साध्यस्य । १३ अन्यथा । १४ दुराग्रह । १५ करणशानं । १६ साध्यसम स्यात् स्वशप्तिनिमित्तत्वाशङ्कातः । १७ कुठारेण व्यभिचारः। १८ मीमांसकभाट्टकरणशानदूषणकथनेन । १९ करणशानस्य परोक्षत्वनिराकरणपरेण ग्रन्थेन ।
1 "तथाहि-सिद्ध तद्विभ्रमे मनःसिद्धिः, तत्सिद्धौ च युगपज्ज्ञानोत्पत्तिविभ्र मसिद्धिरितीतरेतराश्रयत्वान्न मनःसिद्धिः।" सन्मति० टी० पृ० ४७८ ।
2 "अस्तु वा किञ्चिल्लिङ्गम् , तथापि अगृहीतप्रतिबन्धं तत् न परोक्षा बुद्धिमनुमापयितुं समर्थम् ...प्रतिबन्धश्च लिंगलिंगिनोः अविनाभूतत्वेन प्रमाणप्रतिपन्नयोरेव भवति । न च शानं तेन चाविनाभूतं किञ्चिलिंग प्रमाणेन प्रतिपन्नं यतः सम्ब. न्धग्रहणपुरस्सरमनुमान प्रवर्तेत।"
न्यायकुमु० पृ० १८१। 3 "ज्ञानं स्वपरिच्छेदकमर्थज्ञानत्वात् ।" युक्त्यनुशा० टी० पृ० ९ "स्वव्यवसायायात्मकं शानमर्थपरिच्छित्तिनिमित्तत्वादात्मवत्"
प्रमाणप० पृ० ६१। 4 "किञ्च अप्रकाशस्वभावानि मेयानि माता च प्रकाशमपेक्षन्ताम् , प्रकाशस्तु प्रकाशात्मकत्वान्नान्यमपेक्षते । जाग्रतो हि मेयानि माता च प्रकाशन्ते, सुषुप्तस्य च न
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org