________________
१२८ प्रमेयकमलमार्तण्डे [प्रथमपरि० इत्याचंक्षाणः प्रभाकैरोपि प्रत्याख्यातः । प्रेमितेः कर्मत्वेनाप्रतीयमानत्वेपि प्रत्यक्षत्वाभ्युपगमात् । तस्याः क्रियात्वेन प्रतिभासनात्प्रत्यक्षत्वे करणज्ञान-आत्मनोः करणत्वेन कर्तृत्वेन च प्रतिभासनात्प्रत्यक्षत्वमस्तु । न चाभ्यां तस्याः सर्वथा भेदोऽभेदो वा५ मतान्तरानुषङ्गात् । कथञ्चिदभेदे-सिद्धं तयोः कथञ्चित्प्रत्यक्षत्वम् । प्रत्यक्षादभिन्नयोः सर्वथा परोक्षत्वविरोधात् । ननु शाब्दी प्रतिपत्तिरेषा 'घटमहमात्मना वेद्मि' इति नानुभवप्रभावा तस्यास्तदविनाभावाभावात् , अन्यथा 'अमुल्यग्रे हस्तियूथशत
मास्ते' इत्यादिप्रतिपत्तेरप्यनुभवत्वप्रसङ्गैस्तत्कथमतः प्रमात्रादीनां १० प्रत्यक्षताप्रसिद्धिरित्याह
शब्दानुच्चारणेपि स्वस्यानुभवनमर्थवत् ॥१०॥ यथैव हि घटस्वरुपप्रतिभासो घेटशब्दोच्चारणमन्तरेणापि प्रतिभासते। तथा प्रतिभासमानत्वाञ्च न शाब्दस्तथा प्रमात्रादीनां स्वरूपस्य प्रतिभाँसोपि तच्छब्दोच्चारणं विनापि प्रतिभा१५सते । तस्माच न शाब्दः। तच्छब्दोच्चारणं पुनः प्रतिभातप्रमा
१ ब्रुवन् । २ वृद्ध । ३ अर्थपरिच्छित्तेः । ४ प्राभाकरेण। ५ सति । ६ कर्मत्वेनाप्रतीयमानयोरपि। ७ किञ्च । ८ नैयायिकः। ९ बौद्धः । १० अन्यथा। योगसौगतयोः परिग्रहः। ११ कर्मत्वेन परोक्षत्वं कर्तृत्वेन करणत्वेन प्रत्यक्षत्वं कर्तृशानयोः । १२ प्रमितिरूपात् । १३ करणशानात्मनोः। १४ भा। १५ अह. मात्मना। १६ स्वसंवेदनप्रत्यक्ष । १७ अनुभवेन सह । १८ प्रतीतित्वात्सम्प्रतिपन्नप्रतीतिवत् । १९ कारणात् । २० शाब्धाः प्रतिपत्तेः श( स )काशात् । २१ ता। २२ अयं घटः । २३ अनुमानसद्भावाच्च । २४ मुखादिवत् ।
द्वयमपि प्रकाशते । न च तदानीं तन्नास्त्येव प्रबोधे सति प्रत्यभिज्ञानात् , तत्र प्रकाशात्मकत्वे सुषुप्तिदशायामपि द्वयं प्रकाशेत, तस्मादप्रकाशात्मकमेतद् द्वयमंगीक्रियते ।.. मेयानां मातुश्च स्वतःप्रकाशो नोपपद्यत इति युक्ता तयोः परापेक्षा, मितौ च काचिदनुपपत्तिर्नास्ति इति स्वयम्प्रकाशैव मितिः।" प्रक० पं० पृ० ५७ ।
1 तेषां फलशानहेतोय॑भिचारः, कर्मत्वेनाप्रतीयमानस्य फलज्ञानस्य प्राभाकरैः प्रत्यक्षत्वाभ्युपगमात् । तस्य क्रियात्वेन प्रतिभासनात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रतिभासनात् प्रत्यक्षत्वमस्तु ।" प्रमाणप० पृ. ६१।
2 "तच्च फलज्ञानमात्मनोऽर्थान्तरभूतमनर्थान्तरभूतमुभयं वा ? न तावत् सर्व. थाऽर्थान्तरभूतमनर्थान्तरभूतं वा; मतान्तरप्रवेशानुषङ्गात् । नाप्युभयम् ; पक्षद्वयनिग. दितदूषणानुषक्तेः । कथञ्चिदर्थान्तरत्वे तु फलज्ञानादात्मनः कथञ्चित्प्रत्यक्षत्वमनिवार्यम् , प्रत्यक्षादमिन्नस्य कथञ्चिदप्रत्यक्षतैकान्तविरोधात् ।" प्रमाणप० पृ० ६१ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org