________________
.१२६
प्रमेयकमलमार्तण्डे [प्रथमपरि० मीते नात्मान्तरबुद्धिमित्यप्यसारम्; बुद्ध्यात्मनोरप्रत्यक्षतैकान्ते 'यद्बुद्ध्या यस्यार्थः प्रकटीभवति' इत्यस्यैवान्धपरम्परया व्यवस्थापयितुमशक्तः। प्रत्यक्षत्वे चात्मनः सिद्धं विज्ञानस्य स्वार्थव्यवसायात्मकत्वम् । आत्मैव हि स्वार्थग्रहणपरिणतो जानातीति ज्ञान५ मिति कर्तृसाधनज्ञानशब्देनाभिधीयते ।
इन्द्रियार्थों लिङ्गमित्यप्यनालोचिताभिधानम्। तयोर्विज्ञानसद्भावाविनाभावासिद्धेः। योग्यदेशे स्थितस्य प्रतिपत्तुरिन्द्रियार्थसद्भावेप्यन्यत्र गतमनसो विशानाभावात् । तत्सिद्धौ चेन्द्रियस्यातीन्द्रियत्वेनार्थस्यापि ज्ञानाऽप्रत्यक्षत्वेनासिद्धेः कथं तथापि १० हेतुत्वं तयोः ? सिद्धौ वा न साध्यज्ञानकाले ज्ञानान्तरात्तत्सिद्धि
युगपद् ज्ञानानुत्पत्त्यभ्युपगमात् । उत्तरकालीनज्ञानात्तत्सिद्धौतदा साध्यज्ञानस्याभावात्कस्यानुमानम् ? उभयविषयस्यैकज्ञानस्यानभ्युपगमादनँवस्थाप्रसङ्गाञ्चानयोरसिद्धिः।
इन्द्रियार्थसहकारि#गुणं मनो लिङ्गमित्यप्यपरीक्षिताभिधा१५ नम्। तत्सद्भावासिद्धेः । युगपद् ज्ञानानुत्पत्तेस्तत्सिद्धिः, तथा
हि-आत्मनो मनसा तस्येन्द्रियैः सम्बन्धे ज्ञानमुत्पद्यते । यदा चास्य चक्षुषा सम्बन्धो न तदा शेषेन्द्रियैरतिसूक्ष्मत्वात् ; इत्यप्यसङ्गतम् ; दीर्घशष्कुलीभक्षणादौ युगपद्रूपादिक्षानपञ्चकोत्पत्तिप्रतीतेः अश्वविकल्पकाले गोनिश्चयाच्च तदसिद्धः । न चात्र क्रमैका२० न्तकल्पना प्रत्यक्षविरोधात् । किञ्चैवंवादिना (किं) युगपत्तीतं
येनावयवावयव्यादिव्यवहारः स्यात् ? घटपटादिकमिति चेत् न; अत्रापि तथा कल्पनाप्रसङ्गात् । किञ्चातिसूक्ष्मस्यापि मनसो नयना
१ करणशान । २ ता। ३ शान । ४ द्वितीयविकल्पस्य । ५ करणशानस्य । ६ भा (तृतीया)। ७ कस्मिंश्चिद्विषये। ८ करणशानस्य सर्वथा परोक्षत्वात् । ९ इन्द्रियार्थयोः। १० असिद्धत्वेपि। ११ करणशानं प्रति। १२ करणशाने । १३ इन्द्रियार्थ । १४ इन्द्रियाल्लिङ्गात्करणशानसिद्धिरिन्द्रियार्थयोरपि सिद्धिः कस्माद. परकरणज्ञानात्तस्यापि अपरेन्द्रियार्थादित्यनवस्था। १५ एकाग्रम् । १६ मनसः । १७ च शब्दः आधिक्ये । १८ दीर्घशष्कुलीभक्षणादौ युगपद् ज्ञानं नोत्पद्यते इत्येवं. वादिना। १९ अत्राक्षेपार्थे किमिति पूर्वेण सम्बन्धः। २० क्रमैकान्त ।
1 "अश्वविकल्पकाले गोदर्शनानुभवात् युगपज्ज्ञानानुत्पत्तिश्चासिद्धा कथं मनोऽनुमापिका? नचाश्वविकल्पगोदर्शनयोर्युगपदनुभवेऽपि क्रमोत्पत्तिकल्पना प्रत्यक्षविरो. धात् ।"
सन्मति० टी० पृ० ४७७ । 2 "किंच, चक्षुराचन्यतमेन्द्रियसम्बन्धात् रूपादिशानोत्पत्तिकाले मनसः सम्बन्धात् मानसशानं किन्न भवेत् ? तथाविधादृष्टाभावादित्युत्तरम् अदृष्टनिमित्तयुगपज्शानानुत्पत्तिप्रसक्तितो मनसोऽनिमित्तता..." सन्मति० टी० पृ० ४७७ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org