________________
सू० १।९] स्वसंवेदनज्ञानवादः
१२५ कुतश्चैवं दिनो ज्ञानेसद्भावसिद्धिः-प्रत्यक्षात्, अनुमानादेवा? न तावत्प्रत्यक्षात्तस्यातद्विषयतयोपगमात् । यद्यद्विषयं न भवति न तत्तझ्यवस्थापकम् , यथास्मादृप्रत्यक्षं परमाण्वाद्यविषयं न तघ्यवस्थापकम् । ज्ञानाविषयं च प्रत्यक्षं परैरभ्युपगतमिति ।
नाप्यनुमानात् । तदविनाभाविलिङ्गाभावात् । तद्धिं अर्थशप्तिः,५ इन्द्रियार्थों वा, तत्सहकारिप्रंगुणं मनो वा ? अर्थशप्तिश्चेत्सा किं शॉनस्वभावा, अर्थवभावा वा? यदि ज्ञानस्वभावा; तदाऽसिद्धत्वात्तस्याः कथमनुमापकत्वम् ? न खलु ज्ञानस्वभावाविशेषेपि 'ज्ञप्तिः प्रत्यक्षा न करणज्ञानम्' इत्यंत्र व्यवस्था निबन्धनं पश्यामोऽन्यत्र महामोहात् । शब्दमात्रभेदाच्च सिद्धासिद्धत्वभेदः१० खेच्छापरिकल्पितोऽर्थस्याभिन्नत्वात् । ज्ञानत्वेन हि प्रत्यक्षताविरोधे ज्ञप्तावपीयं न स्यादेविशेषात् । अथार्थस्वभावा ज्ञप्तिः तदार्थप्राकट्यं सा, न चैतदर्थग्राहकविज्ञानस्यात्माधिकरणत्वेनापि प्रॉकट्याभावे घटते, पुरुषान्तरज्ञानादप्यर्थप्राकट्यप्रसङ्गात् । आत्माधिकरणत्वपरिज्ञानाभावे , ज्ञानस्य ज्ञानेन शातोप्यर्थः नात्मानु-१५ भवितैकत्वेन ज्ञातो भवेत् 'मैया ज्ञातोऽयमर्थः' इति । अर्थगतप्राकट्यस्य सर्वसाधारणत्वाँच्चात्मान्तरबुद्धेरैप्यनुमानं स्यात् । यद्रुङ्या यस्यार्थः प्रकटीभवति तद्बुद्धिमेवासौ ततोऽनुमि
१ सर्वथा परोक्षकरणशानमित्येवंवादिनः। २ करण। ३ वीतं प्रत्यक्षं करणशानाव्यवस्थापकं तदविषयत्वादिति । ४ मीमांसकैः। ५ बसः। ६ एकाग्रम् । ७ करणज्ञान। ८ अशातासिद्धत्वम् । ९ पक्षे। १० महदशानं वर्जयित्वा । ११ अर्थशप्तिः करणशानमिति। १२ प्रत्यक्षाप्रत्यक्षभेदः। १३ ज्ञानलक्षणस्य । १४ करणस्य । १५ शानत्वेन प्रत्यक्षतायाः। १६ करणशानस्य । १७ जीव अहमधिकरणमस्य ज्ञानस्येति परिशानाभावे । १८ अत्यन्तपरोक्षत्वात् । १९ स्व । २० किञ्च । २१ शानस्य । २२ जीवेन। २३ किञ्च । २४ सर्वेषां करणशानमस्ति अर्थप्राकट्यान्यथानुपपत्तेः । २५ ता । २६ अर्थप्राकट्यात् । २७ जानाति । ... 1 "किंच, बुद्धेः स्वसंवेदनप्रत्यक्षागोचरत्वे कुतस्तत्सत्वं सिद्ध्येत् ? प्रमाणान्तराच्चेत् किं प्रत्यक्षरूपात् , अनुमानरूपाद्वा" .
न्यायकुमु० पृ० १७७ । स्था० रत्ना० पृ० २१६ । 2 "तद्धि इन्द्रियम् , अर्थः, तदतिशयः, तत्सम्बन्धः, तत्र प्रवृत्तिर्वा भवेत् ?"
, न्यायकुमु० पृ. १७८ । स्या० रत्ना० पृ. २१६ । । 3 “यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते, तदा साऽर्थप्राकट्यमुच्यते, न चैतदर्थग्रहणविज्ञानस्य प्राकट्याभावे घटामटति अतिप्रसंगात् । न ह्यप्रकटे अर्थशाने सन्तानान्तरवर्तिनिकरस्य चिदर्थस्य प्राकट्यं घटते ।" प्रमाणप० पृ०६१।।
-
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org