SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १२४ प्रमेयकमलमार्तण्डे [प्रथमपरि० ऽर्थप्रत्यक्षत्वस्याप्यपलापप्रसङ्गात् । प्रतीतिसिद्धस्वभावस्यैकत्रापलापेऽन्यत्राप्यनाश्वासान्न कंचित्प्रतिनियतस्वभावव्यवस्था स्यात् । किञ्च, इयं प्रत्यक्षता अर्थधर्मः, ज्ञानधर्मो वा ? न तावदर्थधर्मः, नीलतादिवत्तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविषय५तया च प्रसिद्धिप्रसङ्गात् । न चैवम् , आत्मन्येवास्या ज्ञानकाले एव खासाधारणविषयतया च प्रसिद्धेः । तथा च न प्रत्यक्षता अर्थधर्मः तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविषयतया चाऽप्रसिद्धत्वात् । यस्तु तद्धर्मः स तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविषयतया च प्रसिद्धो दृष्टः, यथा रूपादिः, १० तद्देशे ज्ञानकालादन्यदाप्यनेकप्रमातृसाधारणविषयतया चाप्रसिद्धा चेयम् तस्मान्न तद्धर्मः। यस्यात्मनो ज्ञानेनार्थः प्रकटीक्रियते तैदज्ञानकाले तस्यैव सोऽर्थः प्रत्यक्षो भवतीत्यपि श्रद्धामात्रम् अर्थप्रकाशकविज्ञानस्य प्राकट्याभावे तेनार्थप्रकटीकरणासम्भवा प्रदीपवत्, अन्यथा सन्तानान्तरवर्तिनोपि ज्ञानादर्थप्राकट्य१५प्रसङ्गः। चक्षुरादिवत्तस्य प्राकट्याभावेप्यर्थे प्राकट्यं घटेतेत्यप्यसमीचीनम् । चक्षुरादेरर्थप्रकाशकत्वासम्भवात् । तत्प्रकाशकज्ञानहेतुत्वात् खलूपचारेणार्थप्रकाशकत्वम् । कारणस्य चौशातस्यापि कार्ये व्यापाराविरोधो ज्ञापकस्यैवाशातस्य ज्ञापकत्वविरोधात् "नाज्ञातं ज्ञापकं नाम" [ ] इत्यखिलैः परीक्षादक्षैरभ्युप२० गमात् । प्रमातुरात्मनो ज्ञापकस्य स्वयं प्रकाशमानस्योपगमादर्थं प्राकट्यसम्भवे करणज्ञानकल्पनावैफल्यमित्युक्तम् । नापि ज्ञानधर्मः; अस्य सर्वथा परोक्षतयोपगमात् ।यंत्खलु सर्वथा परोक्षं तन्न प्रत्यक्षताधर्माधारो यथाऽदृष्टादि, सर्वथा परोक्षं च परैरभ्युपगतं सौनमिति। १ करणशानं प्रत्यक्षमर्थप्रत्यक्षत्वान्यथानुपपत्तेः । २ प्रत्यक्षत्वरूपस्य । ३ करण. झाने। ४. स्थूलत्वाद्यर्थे । ५ अविश्वासात् । ६ वस्तुनि । ७ घरपटादि । ८ अन्यथा। ९ सन्दिग्धानकान्तिकत्वमनेन वाक्येनार्थधर्मत्वादित्येतस्य हेतोः । १० करणज्ञानेन । ११ करण। १२ शानं नार्थ प्रकटयति स्वयमप्रत्यक्षत्वात्परमाण्वादिवत् । १३ करणशानं प्रत्यक्षमर्थप्रकाशकत्वात्प्रदीपवत् । १४ अ(प्रत्यक्षादपि शानादर्थप्राकट्ये । १५ पुरुषान्तर । १६ स्वस्य । १७ उभयत्रापि परोक्षत्वाविशेषात् । १८ कारकस्य । १९ किञ्च । २० करणज्ञानं न प्राकट्यधर्माधिकरणं सर्वथा परोक्षतयोपगमात् । २१ करणम् । 1"अथ प्रकाशतामात्रं तदपि शानधर्मः, अर्थधर्मः उभयधर्मः, स्वतत्रं वा स्यात् ?" न्यायकुमु० पृ० १७९ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy