________________
सू० ११९]
खसंवेदनज्ञानवादः
१२३
मतान्तरानुषङ्गात् । कथञ्चिद्भेदे तु नास्याऽप्रत्यक्षतैकान्तः श्रेयान् प्रत्यक्षखभावाभ्यां कर्तृफलज्ञानाभ्यामभिन्नस्यैकान्ततोऽप्रत्यक्षत्वविरोधात्।
किञ्च, आत्मज्ञानयोः सर्वथा कर्मत्वाप्रसिद्धिः, कथञ्चिद्वा ? न तावत्सर्वथा पुरुषान्तरापेक्षया प्रमाणान्तरपेक्षया च कर्मत्वाप्रसि-५ द्धिप्रसङ्गात् । कथञ्चिच्चेत् , येनात्मनों कर्मत्वं सिद्धं तेन प्रत्यक्षत्वमपि, अस्मैदादिप्रमात्रपेक्षया घटादीनामप्यशैत एव कर्मत्वाध्यक्षयोः प्रसिद्धः । विरुद्धा चे प्रतीयमानयोः कर्मत्वाप्रसिद्धिः, प्रतीयमानत्वं हि ग्राह्यत्वं तदेव कर्मत्वम् । स्वतः प्रतीयमानत्वापेक्षया कर्मत्वाप्रसिद्धौ परतः कथं तत्सिध्येत् ? विरोधाभावाच्चे-१० त्वंतस्तत्सिद्धौ को विरोधः? कर्तृकरणत्वयोः कर्मत्वेन सहानवस्थानम् ; परतस्तत्सिद्धौ सैंमानम् । 'घंटग्राहिज्ञानविशिष्टमात्मानं खेतोऽहमनुभवामि' इत्यनुभवसिद्धं खतः प्रतीयमानत्वापेक्षयापि कर्मत्वम् । तन्नार्थवज्ज्ञानस्य प्रतीतिसिद्धप्रत्यक्षताऽपलोपो
१ नैयायिक । २ करणरूपेण नतु शानरूपेण । ३ का। ४ करणशानं सर्वथा न परोक्षं प्रत्यक्षस्वभावाभ्यां कर्तृफलशानाभ्यामभिन्नत्वात्तत्स्वरूपवत् । ५ करणस्य । ६ करण। ७ अन्यथा । ८ अस्स करणशानमस्ति उपदेशकृतार्थनिश्चयान्यथानुपपत्तेः। ९ करण। १० मम करणशानमस्ति अर्थप्राकट्यान्यथानुपपत्तेः। ११ खभावेन । १२ साकल्येन किमिति न स्यात्प्रत्यक्षत्वमित्युक्त सत्याह । १३ स्थूलत्वादौ । १४ किञ्च । १५ कर्मत्वेन करणत्वेन च । १६ आत्मज्ञानयोः। १७ स्वयं स्वं जानातीति अपेक्षया। १८ परापेक्षया स्वयं कर्मत्वं च कथम् । १९ (स्वयं)। २० करीकरणयोः परतः कर्मत्वेन प्रतीतिरस्ति कथं समान सहानवस्थानं स्यादित्युक्ते सत्याह । २१ विशेषण। २२ स्वयं । २३ अन्यथा ।
1 "सर्वथा प्रतीयमानत्वमसिद्ध कथञ्चिद्वा ? न तावत्सर्वथा; परेणापि प्रतीयमानत्वाभावप्रङ्गात् । कथञ्चित्पक्षे तु नासिद्धं साधनम् , तथैवोपन्यासात् । स्वतःप्रतीयमानस्वमसिद्धमिति चेत्, परतः कथं तत्सिद्धम् ? विरोधाभावादिति चेत्, खतस्तसिद्धौ को विरोधः ? कर्तृत्वकर्मत्वयोः सहानवस्थानमिति चेत्, परतस्तत्सिद्धौ समानम् ।"
तस्वार्थलो. पृ० ४५ । "सुप्रसिद्धो हि घटग्राहिशानविशिष्टमात्मानं स्वतोऽहमनुभवामीत्यनुभवः"
न्यायकुमु० पृ० १७७ । 2 "सकलजगत्प्रतीतौ हि स्तम्भग्राहिशानं ततोऽ( स्वतोऽ)हमनुभवामि इत्यनुभवः, तसाच प्रसिद्धं शाने स्वरूपापेक्षया कर्मत्वं कथं नामापहोतुं शक्यते "
स्था० रत्ना० पृ० २१५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org