________________
सू० ११८,९] स्वसंवेदनज्ञानवादः
१२१ स्तत्स्वभावमेव ज्ञानं युक्तम् । तथा च स्वव्यवसायात्मकं तत् चेतनात्मपरिणामत्वात् , यत्तु न खव्यवसायात्मकं न तत्तथा यथा घटादि, तथा च ज्ञानं तस्मात्स्यव्यवसायात्मकमित्यभ्युपगन्तव्यम् । . नैनु विज्ञानस्य प्रत्यक्षत्वेऽर्थवत्कर्मतापत्तेः करणात्मनो ज्ञानान्तरस्य परिकल्पना स्यात् । तस्यापि प्रत्यक्षत्वे पूर्ववत्कर्मतापत्तेः५ करणात्मकं ज्ञानान्तरं परिकल्पनीयमित्यनवस्था स्यात् । तस्याप्रत्यक्षत्वेपि करणत्वे प्रथमे कोऽपरितोषो येनास्य तथा करणत्वं नेष्यते । न चैकस्यैव ज्ञानस्य परस्परविरुद्धकर्मकरणाकाराभ्युपगमो युक्तोऽन्यत्र तथाऽदर्शनादित्याशङ्कय प्रमेयवत्प्रमातृप्रमाणप्रमितीनां प्रतीतिसिद्धं प्रत्यक्षत्वं प्रदर्शयन्नाह
घटमहमात्मना वेनीति ॥ ८॥ कर्मवत्कर्तृकरणक्रियाप्रतीतेः ॥९॥ ने हि कर्मत्वं प्रत्यक्षतां प्रत्यङ्गमात्मनोऽप्रत्यक्षत्वप्रसङ्गात् तद्वत्तस्यापि कर्मत्वेनाप्रतीतेः । तदप्रतीतावपि कर्तृत्वेनास्य प्रतीतेः प्रत्यक्षत्वे ज्ञानस्यापि करणत्वेन प्रतीतेः प्रत्यक्षतास्तु विशेषा-१५ भावात् । अथ करणत्वेन प्रतीयमानं ज्ञानं करणमेव न प्रत्यक्षम् । तदन्यत्रापि संमानम् । किञ्च, आत्मनः प्रत्यक्षत्वे परोक्षज्ञानकल्पनया किं साध्यम् ? तस्यैव स्वरूपवद्वाह्यार्थग्राहकत्वप्रसिद्धः? कर्तुः करणमन्तरेण क्रियायां व्यापारासम्भवात्करणभूतपरोक्ष
- १ वसः। २ चार्वाकेश भवता । ३ मीमांसकः । ४ विज्ञानं कन-प्रत्यक्षत्वात् , घटवत् । ५ करणस्वरूपस्य । ६ पूर्वज्ञानस्य यथा । ७ प्रथमशानस्य । ८ अप्रत्यक्षत्वे। ९ जैनैः । १० यत्कर्म तदेव करणम् । ११ घटे। १२ अर्थस्य यथा। १३ करणभूतेन । १४ अन्यथा । १५ आत्मा न प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात्करणशानवत् । १६ यत् कर्म न भवति तत्प्रत्यक्षमपि न भवतीत्युक्ते। १७ करणशानवत् । १८ उभयत्र कर्मत्वेनाप्रतीयमानत्वस्य । १९ समाधानपरिहारम् । २० कर्तृत्वेनात्मा प्रतीयमानः कतैव स्यान्न प्रत्यक्ष इति समानम् । २१ प्रयोजनम्। २२ प्रमितिलक्षणायां।
1 "कर्मत्वेनाप्रतिभासमानत्वात् करणशानमप्रत्यक्षमिति चेन्न; करणत्वेन प्रतिभासमानस्य प्रत्यक्षत्वोपपत्तेः । कथञ्चित् प्रतिभासते, कर्म च न भवति इति व्याघातस्य प्रतिपादितत्वात् ।" तत्त्वार्थश्लो० पृ० ४६ । न्यायकुमु० पृ० १७६ । प्रमाणप० पृ०६१ ।
2 "अथ करणत्वेनानुभूयमानं ज्ञानं करणमेव स्यान्न प्रत्यक्षं तहिं कर्तृप्रमाणफलरूपतया अनुभूयमानयोः आत्मप्रमाणफलयोः कर्तृप्रमाणकलरूपतैव स्यात् न प्रत्यक्षत्वमित्यप्यस्तु।"...,
स्था० रत्ना० पृ० २१३ ॥ प्र०क० मा० ११
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org