________________
१२० प्रमेयकमलमार्तण्डे [प्रथमपरि० व्यापारस्य गौरस्थौल्यादिधर्मोपेतं शरीरं प्रतिभासते। अहम्प्रत्ययः खसंविदितः पुनस्तस्यानुभूयमानो देहेन्द्रियविषयादिव्यतिरिकार्थालम्बनः सिद्ध्यतीति प्रमाणप्रसिद्धोऽनादिनिधनो द्रव्यान्तरमात्मा । प्रयोगः-अनाद्यनन्त आत्मा द्रव्यत्वात्पृथिव्यादिवत् । ५न तावदाश्रयासिद्धोयं हेतुः; आत्मनोऽहम्प्रत्ययप्रसिद्धत्वात् । नापि स्वरूपासिद्धः; द्रव्यलक्षणोपलक्षितत्वात् । तथाहि-द्रव्यमात्मा गुणपर्ययवत्त्वात्पृथिव्यादिवत् । न चायमप्यसिद्धो हेतुः; शानदर्शनादिगुणानां सुखदुःखहर्षविषादादिपर्यायाणां च तंत्र
सद्भावात् । न च घटादिनानेकान्तस्तस्य मृदादिपर्ययत्वात् ।। १० ननु शरीररहितस्यात्मनः प्रतिभासे ततोऽन्योऽनादिनिधनोऽसाविति स्यात् जलरहितस्यानलस्येव, न चैवम् , आसंसारं तत्सहितस्यैवास्यावभासनात् । तंत्र 'शरीररहितस्य' इति कोऽर्थः ? किं तत्स्वभावविकलस्य, आहोस्वित्तद्देशपरिहारेण देशान्तरावस्थितस्येति ? तत्राद्यपक्षेऽस्त्येव तद्रहितस्यास्य प्रतिभासः१५ रूपादिमदचेतनखभावशरीरविलक्षणतया अमूर्तचैतन्यखभाव
तया चात्मनोऽध्यक्षगोचरत्वेनोक्तत्वात् । द्वितीयपक्षे तु-शरीरदेशादन्यत्रीनुपलंम्भात्तत्र तदभावः, शरीरप्रदेश एव वा ? प्रथमविकल्पे-सिद्धसाधनम्। तत्र तभावाभ्युपगोत् । न खलु नैयायिकवज्जैनेनापि स्वदेहादन्यत्रात्मेष्यते । द्वितीयविकल्पे तु२०न केवलमात्मनोऽभावोऽपि तु घटादेरपि । न हि सोपि स्वदेशा
दन्यत्रोपलभ्यते। । किञ्च, स्वशरीरादात्मनोऽन्यत्वाभावः तत्स्वभावत्वात् , तहुणत्वात् वा स्यात्, तत्कार्यत्वाद्वा प्रकारान्तरासम्भवात् । पक्षत्रयपि प्रागेव दत्तमुत्तरम् । ततश्चैतन्यस्वभावस्यात्मनः प्रमाणतः प्रसिद्धे
१ पश्चात् । २ मनः। ३ आत्मा । ४ अनादिनिधनस्य । ५ आत्मनि । ६ द्रव्यत्वादिति हेतोः। ७ सति । ८ परिहारमाह । ९ उक्ते ग्रन्थे । १० प्रतिभासाभावः। ११ प्रतिभासाभावः। १२ देशे। १३ जीवस्य । १४ ता। १५ जैनैः। १६. तत्स्वभावस्य यद्यतोऽसाधारणलक्षणविशेषविशिष्टं तत्ततस्तत्त्वान्तरमित्यादिना निरस्तत्वात् । १७ जैनैः।
"द्रव्यतोऽनादिपर्यन्तः सत्त्वात् क्षित्यादितत्त्ववत् । स स्यान्न व्यभिचारोऽत्र हेतो शिन्यसंभवात् ॥ १४० ॥"
. तत्त्वार्थ श्लो० पृ. ३२॥ 2 "शरीररहितस्येति कोऽर्थः-किं तत्स्वभावविकलस्य आहो तद्देशपरिहारेण देशा. न्तरावस्थितस्येति ।"
- स्या० रत्ना० पृ० १०८० ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org