________________
सू० १/७ ]
भूतचैतन्यवादः
११५
चैतन्यगुणत्वे एकस्मिन्नेव शरीरे पुरुषबहुत्वप्रसङ्गः स्यात् । तथाच देवदत्तोपलब्धेऽर्थे यज्ञदत्तस्येवेन्द्रियान्तरोपलब्धे तस्मिन् न स्यादिन्द्रियान्तरेण प्रतिसन्धानम् । दृश्यते चैतत्ततो नेन्द्रियगुचैतन्यम् । अथैकमेवेन्द्रियमशेष करणाधिष्ठायक मिष्यतेऽतोयमदोषः : तर्हि संज्ञाभेदमात्रमेव स्यादात्मनस्तथा नामान्तरकरणात् । ५ नापि चैतन्यगुणवन्मनः करणत्वाद्वास्यादिवत् | कर्तृत्वो पर्गमे तस्य चेतनस्य सँतो रूपायुपलब्धौ करणान्तरांपेक्षित्वे च प्रकारान्तरेणात्मैवोक्तः स्यात् ।
नापि विषयंगुणः तदसान्निध्ये तद्विनाशे चानुस्मृत्यादिदर्शनात् । न च गुणिनोऽसान्निध्ये विनाशे वा गुणानां प्रतीतिर्युक्ता, १० गुणत्वंविरोधानुषङ्गात् । ततः परिशेषाच्छरी रौदिव्यतिरिक्ताश्रयोंश्रितं चैतन्यमितो भवत्येवात्मसिद्धिः ।
ततो निराकृतमेतत्- 'शरीरेन्द्रियविषयसंज्ञेभ्यः पृथिव्यादिभूतेभ्यश्चैतन्याभिव्यक्तिः, पिष्टोदकगुडघातक्यादिभ्यो मदशक्तिवत्' । ततोऽसाधारणलक्षणविशेषविशिष्टत्वेप्यतत्त्वा (तस्तत्त्वा) न्तरत्व - १५
१ चैतन्यं गुणो येषां तानि तत्त्वे । २ चक्षुषा दृष्टेऽर्थे श्रोत्रेण प्रतिसन्धानं न स्यात् । ३ प्रत्यभिज्ञानम् । ४ मनः । ५ प्रेरकम् । ६ परेण । ७ विद्यमानस्य । ८ मनः । ९ चक्षुरादि । १० चैतन्यं । ११ सुखादि । १२ अन्यथा । १३ गुणिनोऽमी गुणा इति । १४ इन्द्रियमनोविषय | १५ आत्म । १६ गुणत्वादिसाधनात् । १७ जायते । १८ तेभ्यश्चैतन्यस्याभिव्यक्तिर्यतः | १९ ज्ञानदर्शनोपयोगरूप | २० चैतन्यस्य 1
1 "यदि चैकमिन्द्रियमशेषकरणाधिष्ठायकं चेतनमिष्येत; संज्ञामेदमात्रमेव स्यात् ।” प्रश० व्यो० पृ० ३९५ ।
स्वयं
2 " नापि मनसः कारणान्तरानपेक्षित्वे युगपदालोचन स्मृतिप्रसङ्गात् करणभावाच्च । " प्रश० भा० पृ० ६९ ।
"नापि मनोगुणः करणत्वात् वास्यादिवत् । ” प्रश० व्यो० "युगपज्ज्ञेयानुपलब्धेश्च न मनसः ।"
न्यायसू० ३।२।१९ ।
3 "अत एव विषयस्यापि न चैतन्यम् । "
प्रश० कन्दली पृ० ७२ ।
" विषयासान्निध्ये तद्विनाशे चानुस्मृतिर्दृष्टा । न तत् गुणतद्विनाशे भवतीति । " प्रश० व्यो० पृ० ३९५ । न्यायकुभु० पृ० ३४७ । 4 “इत्याह-मदशक्तिवद्विशानम् । यथैव हि मद्याङ्गानां किण्वादीनां देशकालावस्थाविशेषे मदशक्तिलक्षणावस्थाविशेषः प्रादुर्भवति एवं पृथिव्यादीनां तद्विशेषे प्रतिनियतघटादिग्राहकं ज्ञानमिति । "
न्यायकुमु० पृ० ३४२ ।
For Personal and Private Use Only
Jain Educationa International
० पृ० ३९५ । न्यायकुमु० पृ० ३४७.
www.jainelibrary.org