________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० मेव । “पृथिव्य(व्या)पस्तेजोवायुरिति तत्त्वानि, तत्समुदये शरीरेन्द्रियविषयसंज्ञाः तेभ्यश्चैतन्यम्" [. ] इत्यत्र 'अभिव्यक्तिमुपयाति' इति क्रियाध्याहारादतःसन्दिग्धविपक्षव्या
वृत्तिको हेतुरिति; शब्दसामान्याभिव्यक्तिनिषेधेनास्य चैतन्या५भिव्यक्तिवादस्य विरोधाच्च।
किंच, संतोऽभिव्यक्तिश्चैतन्यस्य, असतो वा स्यात् , सदसलूपस्य वा? प्रथमकल्पनायाम् तस्यानाद्यनन्तत्वसिद्धिः, सर्वदा सतोऽभिव्यक्तेस्तामन्तरेणानुपपत्तेः । पृथिव्यादिसामान्यवत् ।
तथा च "परलोकिनोऽभावात्परलोकाभावः" [... ] १० इत्यपरीक्षिताभिधानम् । प्रागसतश्चैतन्यस्याभिव्यक्तौ प्रतीतिविरोधः, सर्वथाप्यसतः कस्यचिदभिव्यक्त्यप्रतीतेः। न चैववादिनो व्यञ्जककारकयोर्भेदः, 'प्राक्सतः स्वरूपसंस्कारकं हि व्यञ्जकम्, असतः स्वरूपनिर्वर्तकं कारकम्' इत्येवं तयोर्भेदप्रसिद्धिः । कथञ्चित्सतोऽसतश्चाभिव्यक्तौ परमतप्रवेशः-कथञ्चिद्रव्यतः सतश्चै१५तन्यस्य पर्यायतोऽसतश्च कायाकारपरिणतः पृथिव्यादिपुद्गलैः
..१ सूत्रे। २ चैतन्यस्याभिव्यक्तिः । ३ बसः। ४ असाधारणलक्षणविशेष. विशिष्टत्वादिति। .. ५ आकाशात्तद्विलक्षणशब्दोत्पत्ति यौगाभितां निराकुर्वतश्चार्वाकस्य भूतेभ्यस्तद्विलक्षणचैतन्योत्पत्तिकथनमयुक्तं स्ववचनविरोधादित्यभिप्रायः। ६ अग्रे । ७ यथा घटानां प्रदीपाद्यभिव्यञ्जकव्यापारात्पूर्व सद्भावग्राहकं प्रमाणमस्ति. तथा ताल्वादिव्यापारात्पूर्व शब्दादिसद्भावग्राहकप्रमाणाभावात्कथमभिव्यञ्जकव्यापाराच्छन्दादीनामभिव्यक्तिरिति चार्वाकेण शब्दाद्यभिव्यक्तिपक्षे मीमांसकं प्रत्युद्भाव्यमानेन दूषणेन चैतन्याभिव्यक्तिपक्षस्यापि निराकृतत्वात् । कथम् ? अभिव्यक्ताच्चैतन्यात्पूर्वमनभिव्यक्तनित्यचैतन्यसद्भावग्राहकप्रमाणभावादिति । ८ किश्च । ९ पृथिवीत्वादि । १० अनाद्यनन्तात्मसिद्धौ । ११ सत्याम् । १२ खरविषाणादिवत् । १३ किञ्च । '१४ मा भूत् । १५ व्यङ्ग्यस्य । १६ जैन । १७ नरनारकादि ।
__ 1 इदं वाक्यं तत्त्वोपप्लव पृ० १, भामती ३।३१५४, तत्त्वसं पं० पृ० ५२०,
तत्त्वार्थ श्लो० पृ० २८, न्यायकुमु० पृ० ३४१ इत्यादिषु उद्धतं वर्तते।। 12 "तथाहि-पृथिव्यापस्तेजोवायुरिति चत्वारि तत्त्वानि । तेभ्यश्चैतन्यमिति । अत्र
केचिद्वृत्तिकारा व्याचक्षते-'उत्पद्यते तेभ्यश्चैतन्यम्' इति । अन्ये 'अभिव्यज्यते' इत्याहुः ।"
- तत्त्वसं० पं० पृ० ५२० । .. 3 "चैतन्यशक्ति सतीमेव, प्रागसतीमेव, सदसती वा अभिव्यञ्जयेयुः।"
युक्त्यनुशा० टी० पृ० ७५ । न्यायकुमु० पृ० ३४५ । 4 इदं वाक्यं तत्त्वोपप्लव० पृ० ५८, तत्त्वसं० पं० पृ० ५२३, न्यायकुमु० पृ० ३४३, सन्मति० टी० पृ० ७१ इत्यादिषु उद्धृतं वर्तते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org