SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ११४ प्रमेयकमलमार्तण्डे [प्रथमपरि० शरीरं चैतन्यगुणाश्रयो भूतविकारत्वाद् घटादिवत् । चैतन्यं वा शरीरविशेषगुणो न भवति सति शरीरे निवर्तमानत्वात् । ये तु शरीरविशेषगुणा न ते तस्मिन्सति निवर्तन्ते यथा रूपादयः, सत्यपि तैस्मिन्निवर्त्तते च चैतन्यम् , तस्मान्न तद्विशेषगुणः । ५ तथा, नेन्द्रियाणि चैतन्यगुणवन्ति करणत्वाद्भूतविकारत्वाद्वा वास्यादिवत् । तहुणत्वे च चैतन्यस्येन्द्रियविनाशे प्रतीतिर्न स्याहुणिविनाशे गुणस्याप्रतीतेः। न चैवम् , तस्मान्न तहणः । तथा च प्रयोगः-स्मरणादि चैतन्य मिन्द्रियगुणो न भवति तद्विनाशेप्युत्प द्यमानत्वात् , यो यद्विनाशेप्युत्पद्यते स न तहुणो यथा पटविना१० शेपि घटरूपादि, भवति चेन्द्रियविनाशेपि स्मरणादिकम् , तस्मान्न तहुणः। यदि चेन्द्रियगुणश्चैतन्यं स्यात्तर्हि करणं विना क्रियायाः प्रतीत्यभावात् करणान्तरैर्भवितव्यम् । तेषां च प्रत्येक १ शरीरस्य । २ चैतन्यस्य। ३ शरीरे। ४ किञ्च । ५ सुखम् । ६ किञ्च । ७ गुणी। ८ गुणः। ९ जानातीति । १० चैतन्यलक्षणायाः।। 1 "न शरीरेन्द्रियमनसामशत्वात् । न शरीरस्य चैतन्यं घटादिवत् भूतकार्यत्वात् मृते चासंभवात् ।" _प्रश० भा० पृ० ६९। "शरीरं चैतन्यशून्यं भूतत्वात् कार्यत्वाच्च । "चैतन्यं शरीरविशेषगुणो न भवति सति शरीरे निवर्तमानत्वात् ।" प्रश० व्यो० पृ० ३९४ । न्यायकुमु० पृ० ३४६ । "न शरीरगुणश्चेतना, कस्मात् ? 'यावच्छरीरभावित्वात् रूपादीनाम् ।' 'शरीरव्यापित्वात्' 'शरीरगुणवैधात्' । न्यायसू० ३१२।४९,५२,५५ । "न शरीरस्य ज्ञानादियोगः परिणामित्वात् , रूपादिमत्त्वात् , अनेकसमूहस्वभाव. त्वात् , सन्निवेशविशिष्टत्वात् ।" न्यायमं० पृ० ४३९ । "देहधर्मवैलक्षण्यात्..." ब्रह्मसू० शा० भा० ३।३।५४ । 2 "नेन्द्रियाणां करणत्वात् उपहतेषु विषयासान्निध्ये चाऽनुस्मृतिदर्शनात् ।" प्रश. भा० पृ० ६९ । "नेन्द्रियार्थयोः तद्विनाशेऽपि शानावस्थानात् ।" न्यायसू० ३।२।१८। "नेन्द्रियाणां चैतन्यं करणत्वात् वास्यादिवत्, भूतत्वात् , कार्यवादित्यपि द्रष्टव्यम् । तदुपघातेऽपि स्मृतिदर्शनात् ।" प्रश० व्यो० पृ० ३९४ । न्यायकुमु० पृ० ३४६ । 3 "स्मरणमिन्द्रियगुणो न भवति यथा घटविनाशेऽपि पटरूपादिरिति । तथा च स्मरणमिन्द्रियविनाशेऽपि भवति तस्मान्न तद्गुण इति ।" प्रश० व्यो० पृ० ३९५ । 4 "यदि चेन्द्रियाणां चैतन्यं स्यात् करणं विना क्रियायाश्चानुपलब्वेरिति करणान्तरैर्भवितव्यम् । तानि करणानि इन्द्रियाणि विवादास्पदानि चात्मान इले. कस्मिन् शरीरे पुरुषबहुत्वमभ्युपगतं स्यात् ।" प्रश० व्यो० पृ० ३९५ । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy