________________
सू० १/७ ]
भूतचैतन्यवादः
इति तत्स्वभावस्य प्रतिभासनात् । न चार्थान्तरस्यार्थान्तरस्वभा वेनाप्रत्यक्षत्वं दोषः, सर्वपदार्थानामप्रत्यक्षताप्रसङ्गात् । अथात्मनः कर्तृत्वादेकस्मिन् काले कर्मत्वासम्भवेनाप्रत्यक्षत्वम् ; तन्न; लक्षणभेदेन तदुपपत्तेः, स्वातन्त्र्यं हि कर्तृत्वंलक्षणं तदैव च ज्ञानक्रियया व्याप्यत्वोपलब्धेः कर्मत्वं चाविरुद्धम्, लक्षणाधीनत्वाद्वस्तु- ५
व्यवस्थायाः ।
तथानुमानेनात्मा प्रतीयते । श्रोत्रादिकरणानि कर्तृप्रयोज्यानि करणत्वाद्वास्यादिवत् । न चौत्र श्रोत्रादिकरणानामसिद्धत्वम् ; 'रूपरसगन्धस्पर्शशब्दोपलब्धिः करणकार्या क्रियात्वाच्छिदिक्रियावत्' इत्यनुमानात्तत्सिद्धेः । तथा 'शब्दादिज्ञानं कचिदा- १० श्रितं गुणत्वाद्रूपादिवत्' इत्यनुमानतोप्यसौ प्रतीयते । प्रामाण्यं चानुमानस्याग्रे समर्थयिष्यते । शरीरेन्द्रियमनोविषेयगुणत्वाद्विज्ञानस्य न तद्व्यतिरिक्ताश्रयाश्रितत्वम्, येनात्मसिद्धिः स्यादित्यपि मनोरथमात्रम् विज्ञानस्य तगुणत्वासिद्धेः । तथाहि न
११३
१ आत्म | २ चैतन्यस्य । ३ रूपादिलक्षणादर्थादर्थान्तरमात्मा तस्य । ४ आत्मलक्षणादर्थादर्थान्तरं घटादिस्तस्य स्वभावो रूपादिस्तेन । ५ अन्यथा । ६ घटादीनां । ७ रूपरसादिरूपेण धर्मेण प्रत्यक्षत्वासम्भवात् । (?) ८ कर्तृकाले । ९ स्वतंत्रः कर्तेति वचनात् । १० क्रियाव्याप्तं कर्मेति वचनात् । ११ असाधारणस्वरूपम् । १२ प्रत्यक्षप्रकारेण । १३ अर्थपरिच्छित्तौ । १४ छिदौ । १५ अनुमाने । १६ प्रत्यक्षानुमान - प्रकारे । १७ आत्मनि । १८ घटाद्यर्थे यथा । १९ आत्मा । २० अस्माभिजैनैः । २१ घटादि खगादि च । २२ केन ।
1 .1 “अथात्मनः कर्त्तृत्वादेकस्मिन् काले कर्मत्वासंभवेनाप्रत्यक्षत्वम् ; तन्न; लक्षणभेदेन तदुपपत्तेः । तथाहि - शानचिकीर्षाधारत्वस्य कर्तृलक्षणस्योपपत्तेः कर्तृत्वम्, तदैव च क्रियया व्याप्यत्वोपलब्धेः कर्मत्वञ्चेति न दोषः । लक्षणतत्रत्वाद्वस्तुव्यव स्थायाः ।" प्रश० व्यो० पृ० ३९२ । 1221" करणैः शब्दाद्युपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते वास्यादीनां करणानां कर्तृप्रयोज्यत्वदर्शनात् । शब्दादिषु प्रसिद्ध्या च प्रसाधकोऽनुमीयते । "
प्रश० भा० पृ०. ६९-१
श्रोत्रादीनि करणानि कर्तृप्रयोज्यानि करणत्वात् वास्यादिवत् । ” प्रश० व्यो० पृ० ३९३ । न्यायकुमुं० पृ० ३४९ । 13" शब्दोपलब्धिः करणकार्या क्रियात्वात् छिदिक्रियावत् । "
प्रश० व्यो० पृ० ३९३ । स्या० मं० का० १७ । 4 " शब्दादिज्ञानं कचिदाश्रितं गुणत्वात् ।”
प्रश० व्यो० पृ० ३९३ । न्यायकुमु० पृ० ३४९ ॥
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org