________________
११२ प्रमेयकमलमार्तण्डे [प्रथमपरि० दुःख्यहमिच्छावानहम्' इत्याद्यनुपचरिताहम्प्रत्ययस्यात्मग्राहिणः प्रतिप्राणि संवेदनात् । न चायं मिथ्याऽबाध्यमानत्वात् । नापि शरीरालम्बनः; बहिःकरण निरपेक्षान्तःकरणव्यापारेणोत्पत्तेः। न हि शरीरं तथाभूतप्रत्ययवेद्यं बहिःकरणविषयत्वात् , तस्यानुप५चरिताहम्प्रत्ययविषयत्वाभावाच्च । न हि 'स्थूलोऽहं कृशोहम् इत्याभिन्नाधिकरणतया प्रत्ययोऽनुपचरितः, अत्यन्तोपकारके भृत्ये 'अहमेवायम्' इति प्रत्ययस्याप्यनुपचरितत्वप्रसङ्गात् । प्रतिभासभेदो बाधकः अन्यत्रापि समानः। न हि बहलतमःपटलपटाव
गुण्ठिंतविग्रहस्य अहम्' इति प्रत्ययप्रतिभासे स्थूलत्वादिधर्मोपेतो १० विग्रहोपि प्रतिभासते । उपचारैश्च निमित्तं विना न प्रवर्तते
इत्यात्मोपकारकत्वं निमित्तं कल्प्यते भृत्यवदेव । 'मदीयो भृत्यः' इतिप्रत्ययभेदवत् 'मदीयं शरीरम्' इति प्रत्ययभेदस्तु मुख्यः। यञ्चोक्तम्-रूपादिवत्तत्स्वभावानवधारणात् तदयुक्तम् अहम्'
१ बहिःकरणनिरपेक्षान्तःकरणव्यापारादुत्पद्यमानप्रत्ययवेद्यम् । २ अभावोऽसिद्ध इत्युक्ते सत्याह। ३ इच्छावानहम् । ४ ईप् । ५ अनुकरणे। ६ देहः । ७ अन्यथा। ८ उपचारेण। ९ स्थूलोहमित्यादिप्रत्यये। १० आवृत । ११ पुरुषस्य । १२ स्थूलत्वादो। १३ स्थूलत्वादेः। १४ प्रयोजनम् । १५ शरीरस्य । १६ शाने । १७ शरीरस्य । १८ शान । १९ परेण । २० आत्म । २१ आत्मा ।
"स्वसंवेद्यः स भवति नासावन्येन शक्यते द्रष्टुम् , नासावन्येन शक्यते द्रष्टुं कथमसौ निर्दिश्येत...असौ पुरुषः स्वयमात्मानमुपलभते । न चान्यस्मै शक्नोत्युपदर्शयितुम् ।"
___ शाबरभा० ११११५। "अहम्प्रत्ययविज्ञेयः स्वयमात्मोपपद्यते ।" मीमांसालो. आत्मवादश्लो० १०७ ।
"स्वसंवेदनतः सिद्धः सदात्मा बाधवर्जितात् ।
तस्य क्ष्मादिविवर्त्तात्मन्यात्मन्यनुपपत्तितः ॥ ९६ ॥" 'तत्त्वार्थश्लो० पृ० २६ । शास्त्रवा० समु० श्लो० ७९ । न्यायकुमु० पृ० ३४३ । .: 1 "न शरीरालम्बनमन्तःकरणव्यापारेण उत्पत्तेः । तथाहि न शरीरमन्तःकरणपरिच्छेचं बहिर्विषयत्वात् ।"
प्रश० व्यो० पृ० ३९१ । 2 "नन्वेवं कृशोऽहं स्थूलोऽहमिति प्रत्ययस्तहिं कथम् ? मुख्य बाधकोपपत्तेरुपचारेण । तथाहि-मदीयो भृत्य इति शानवन्मदीयं शरीरमिति भेदप्रत्ययदर्शनात् भृत्यवदेव शरीरेऽप्यहमिति ज्ञानस्य औपचारिकत्वमेव युक्तम् । उपचारस्तु निमित्तं विना न प्रवर्तते इत्यात्मोपकारकत्वं निमित्तं कल्प्यते ।" प्रश० व्यो० पृ० ३९१ । न्यायकुमु० पृ० ३४९ । सन्मति० टी० पृ० ८६ ।
3 "अहमिति स्वभावस्य प्रतिभासनात् । नचार्थान्तरस्य अन्तरस्वभावेनाप्रत्यक्षत्वं दोषः, सर्वपदार्थानामप्रत्यक्षताप्रसङ्गात् ।" प्रश० व्यो० पृ० ३९१ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org