________________
सू० १/७ ]
भूतचैतन्यवादः
१११
स्वसंवेदन प्रत्यक्षाधिगम्यः परलोकादिसम्बन्धित्वेनानुमेयंश्च आत्मापरनामा विज्ञानोपादान हेतुरिति परैरभ्युपगमात् ।
तस्यातो विजातीयत्वे नोपादानभावः । सर्वथा विजातीयस्योपादानत्वे वह्नेर्जलाद्युपादानभावप्रसङ्गात् तत्त्वचतुष्टयव्याघातः । सत्त्वादिनी सजातीयत्वात्तस्योपादानभावेपि अयमेव दोषः | ५ प्रमाणप्रसिद्धत्वाच्चात्मनस्तदुपादानत्वमेव विज्ञानस्योपपन्नम् । तथा हि-यंद्यतोऽसाधरणलक्षणविशेषविशिष्टं तत्त्वतस्तत्त्वान्तरम् यथा तेजसो वाय्वादिकम् पृथिव्याद्यसाधारणलक्षणविशेषविशिष्टं च चैतन्यमिति । न चायमसिद्धो हेतुः चैतन्यस्य जना ( ज्ञान ) दर्शनोपयोगलक्षणत्वात्, भूपयः पावकपवनानां धार- १० रणद्रवोष्णतास्वभावानां तल्लक्षणाभावात् । न हि भूतानि ज्ञानदर्शनोपयोगलक्षणानि अस्मदाद्यनेकप्रतिपत्त प्रत्यक्षत्वात् । यत्पुनस्तल्लक्षणं तन्नास्मदोद्यनेकप्रतिपत्तृप्रत्यक्षम् यथा चैतन्यम्, तथा च भूतानि, तस्मात्तथैवेति ।
ननु ज्ञानद्युपयोगविशेषव्यतिरेकेणापरस्य तद्वतः प्रमाणतो- १५ प्रतीतेः असिद्धमेवासाधारलक्षणविशेषविशित्वम्; तथाहि-न तावत्प्रत्यक्षेणीसौ प्रतीयते; रूपादिवत्तत्स्वभावानवधारणात् । नाप्यनुमानेन; अस्य प्रामाण्याप्रसिद्धेः । न च तद्भावावेदकं किञ्चिदनुमौनमस्ति इत्यसङ्गतम् ; प्रत्यक्षेणैवात्मनः प्रतीतेः 'सुख्यहं
"
१ आदिपदेन पुण्यपाप । २ चिद्विवर्त्तत्वादित्यतः । ३ जैन: । ४ चैतन्यस्य । ५ अन्यथा | ६ प्रमेयत्ववस्तुत्वादि । ७ किञ्च । ८ स उपादानं यस्य तत् । ९ चैतन्यं धर्मी पृथिव्यादिभ्योऽर्थान्तरं भवतीति साध्यो धर्मः । ततोऽसाधारणलक्षणविशेषविशिष्टत्वात् । १० पृथिव्यादिभ्यः । ११ विसदृश । १२ पृथिव्यादिभ्यः । १३ भिन्नं । १४ का । १५ शानदर्शरूप एव उपयोगः | १६ अनेक सर्वशप्रत्यक्षेणास्मञ्चैतन्येन व्यभिचारः । १७ अनेकप्रतिपत्तृप्रत्यक्षत्वादित्युक्ते । १८ प्रत्यक्षत्वादित्युक्ते प्रत्यक्षेण । १९ अस्मच्चैतन्येन व्यभिचारः । २० दर्शन । २१ आत्मनः । २२ साधनम् । २३ इन्द्रियप्रत्यक्षेण । २४ किञ्च । २५ हेतुः ।
1 “न हि भूतानि स्वसंवेदनलक्षणानि अस्मदाद्यनेकप्रतिपत्तृप्रत्यक्षत्वात् ।”
अष्टसह० पृ० ६४ ।
2 " आत्मसद्भावे प्रमाणाभावात् ; तथाहि न प्रत्यक्षेणोपलभ्यते रूपादिवत्तत्स्वभावानवधारणात् । नाप्यनुमानमस्त्यात्मप्रतिबद्धम् । " प्रश० व्यो० पृ० ३९१ ।
3 "अहमिति प्रत्यये तस्य प्रतिभासनात् तथाच मुख्यहं
मिति प्रत्ययो दृष्टः ।”
Jain Educationa International
2
दुःख्य ह मिच्छावानह
प्रश० व्यो० पृ० ३९१ ।
For Personal and Private Use Only
www.jainelibrary.org