________________
११०
प्रमेयकमलमार्तण्डे [प्रथमपरि० वत् क्षणिकत्वादेरपि प्रसिद्धस्तदर्थमनुमानमनर्थकम् । तदसिद्धौ वा नीलत्वादेरप्यतः सिद्धिर्न स्यादविशेषात् । ननु चानेकवभावार्थाकारत्वेपि ज्ञानस्य यस्मिन्नेवाशे संस्कारपाटवान्निश्चयोत्पादकत्वं तत्रैव प्रामाण्यं नान्यत्रेति । नन्वसौ निश्चयः साकारः, ५निराकारो वा? साकारत्वे-तत्रापि नीलाद्याँकारस्य क्षणिकत्वाद्याकाराद्भेदाभेदपक्षयोः पूर्वोक्तदोषप्रसङ्गः । तत्रापि निश्चयान्तरकल्पनेऽनवस्था । अथ निराकारः; तर्हि निश्चयात्मना सर्वार्थेष्वविशिष्टस्य ज्ञानस्य 'अयमस्यार्थस्य निश्चयः' इति प्रतिकर्मनियमः कुतः सिद्ध्येत् ? निराकारस्यापि कुंतश्चिन्निमित्तात् प्रतिकर्म १० सिद्धावन्यत्राप्यत एव तत्सिद्धेः किमाकारकल्पनयेति?
नन्वस्तु निराकारत्वं विज्ञानस्य; न तु स्वसंविदितत्वं भूतपरिणामत्वादर्पणादिवदित्यप्ययुक्तम् ; हेतोरसिद्धेः । भूतपरिणामत्वे हि विज्ञानस्य बाह्येन्द्रियप्रत्यक्षत्वप्रसङ्गो दर्पणादिवत् । सूक्ष्म
भूतविशेषणपरिणामत्वान्न तत्प्रसङ्गः, इत्यप्यसङ्गतम्हि चैत१५न्येने सजातीयः, विजातीयो वा तदुत्पादन(तदुपादान)हेतुः
स्यात् ? प्रथमपक्षे सिद्धसाध्यता; सूक्ष्मो हि भूतविशेषोऽचेतनद्रव्यव्यावृत्तखभावो पादिरहितः सर्वदा बाह्येन्द्रियाविषयः
१ अर्थस्य । २ क्षणिकत्वादि । ३ सर्व क्षणिक सत्त्वात् । ४ नीलाकारशानात् । ५ अभिन्नत्वस्य । ६ यस्य शानस्य । ७ नीले। ८ विकल्प । ९ क्षणिकांशे । १० भो बौद्ध। ११ ज्ञानेनोत्पाद्यः। १२ साकारनिश्चयविषयेथें । १३ निश्चयगतस्य । १४ अक्षणिकत्वादि । १५ अभिन्नपक्षे । निश्चयगतनीलाद्याकारे । १६ नीलगतक्षणि. कत्वनिश्चयपरिहारार्धम् । १७ ग्रन्थानवस्था। १८ निश्चयः। १९ स्वस्वरूपेण । २० साधारणस्य । २१ नीलस्य । २२ योग्यतातः । २३ निराकारज्ञानपक्षेपि । २४ किं प्रयोजनं न किमपि । २५ जैनं प्रति चार्वाको ब्रूते। २६ हेतोरसिद्धत्वमेव दर्शयन्ति। २७ शानस्य । २८ सूक्ष्मभूतविशेषः। २९ ज्ञानेन। ३० अस्माकं जैनानाम् । ३१ प्राणी। ३२ रसगन्धवर्णशब्दैश्च ।
1
"सूक्ष्मो भूतविशेषश्चेदुपादानं चितो मतम् । स एवात्मास्तु चिज्जातिसमन्वितवपुर्यदि ॥ ११० ॥ तद्विजातिः कथन्नाम चिदुपादानकारणम् । भवतस्तेजसोऽम्भोवत् तथैवादृष्टकल्पना ॥ १११ ॥ सत्त्वादिना समानत्वाच्चिदुपादानकल्पने।
क्ष्मादीनामपि तत्केन निवार्येत परस्परम् ॥ ११२ ॥ सूक्ष्मभूतविशेषः चैतन्येन विजातीयः सजातीयो वा ?"
तत्त्वार्थश्लो० पृ० २९ । न्यायकुमु० पृ० ३३८ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org