________________
सू० १/७ ]
त्वात् । कथं चर्थवदिन्द्रि॒याकारं नानुकुर्यादसौ तदुत्पत्तेरविशेपात् ? तदविशेषेप्यस्य कारणान्तरपरिहारेणार्थाकारानुकारित्वं पुत्रस्येव पित्राकारानुकरणमित्यप्यसङ्गतम् ; खोपादानमात्रानुकरणप्रसङ्गात् । विषयस्यालम्बनप्रत्ययतया खोपादानस्य च समनन्तरप्रत्ययतया प्रत्यासत्तिविशेषसद्भावात् उभयाकारानुकरणे - ५ Sagपादानस्यापि विषयतापंत्तिरविशेषीत् । तेजन्मरूपाविशेषेयध्यैवसायनियमात् प्रतिनियतार्थनियामकत्वेऽर्थवदुपादानेष्यध्यवसायप्रसङ्गः, अन्यथोभयत्राप्यसौ मा भूद्विशेषाभावात् । न चैं तज्जन्मादित्रयसद्भावेप्यर्थप्रतिनियमः; कामलींद्युपहतचक्षुषः शुक्ले शङ्खे पीताकारज्ञानादुत्पन्नस्य तद्रूपस्य तदाकाराध्यवसायिनो १० विज्ञानस्य समनन्तरप्रत्यये प्रामाण्यप्रसङ्गात् । न चैवंवादिनो विज्ञानस्य स्वरूपे प्रमाणता घटते तत्र सारूप्याभावात् ।
साकारज्ञानवादः
किञ्च, ज्ञानगतानीलाद्याकारात् क्षणिकत्वाद्यकारः किं भिन्नः, अभिन्न वा ? भिन्नश्चेत्; नीलाद्याकारस्याक्षणिकत्वप्रसङ्गस्तद्व्यावृत्तिलक्षणत्वात्तस्य । अथाभिन्नः; तर्हि ततोऽर्थस्य नीलत्वादि- १५
१ किञ्च । ताद्रूप्यनिषेधं कुर्वन्ति । २ ज्ञानस्य । ३ अर्थ लक्षणात्कारणादपरमिन्द्रियलक्षणम् । ४ बोधस्य । ५ कारण । ६ अव्यवहितकारण । ७ तदुत्पत्तिलक्षण, सम्बन्ध । ८ अर्धपूर्वज्ञाने । ९ तज्जन्मतद्रूपविशेषाभावात् । १० अर्थोपादानाभ्यामुत्पत्तेरविशेषात् । ११ अर्थोपादानाभ्यां । १२ निश्चय । १३ बोधस्य । १४ अर्थोपादानयोः । १५ तज्जन्मरूप । १६ किञ्च इदानीं सह दूषयति । १७ अर्थात्तदुत्पत्त्यादि । १८ बोध । १९ दोष । २० पुरुषस्य । २१ किञ्च । साकारत्वेन ज्ञानस्य प्रामाण्यवादिनः । २२ निरंशत्वादि । २३ अत्रानुमाने घटादिवद् दृष्टान्तः । २४ नीलाकाराज् ज्ञानात् ।
१०९
1 " न केवलं विषयबलाद् दृष्टेरुत्पत्तिरपि तु चक्षुरादिशक्तेश्च । विषयाकारानुकरणाद्दर्शनस्य तत्र विषयः प्रतिभासते, न पुनः करणम् तदाकाराननुकरणादिति चेत्तर्हि; तदर्थवत्करणमनुकर्तुमर्दति, न चार्थं विशेषाभावात् । दर्शनस्य कारणान्तरसद्भावेऽपि विषयाकारानुकारित्वमेव सुतस्येव पित्राकारानुकरणमित्यपि वार्त्तम् ; खोपा - दानमात्रानुकरणप्रसङ्गात् । विषयस्यालम्बनप्रत्ययतया स्वोपादानस्य च समनन्तरप्रत्ययतया प्रत्यासत्तिविशेषाद् दर्शनस्य उभयाकारानुकरणेप्यनुज्ञायमाने रूपादिवदुपादानस्यापि विषयतापत्तिः, अतिशयाभावात् । वर्णादेर्वा तद्वदविषयत्वप्रसङ्गात् । "
अष्टश०,
अष्टसह० पृ० ११८ । 2 " दर्शनस्य तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमाद् बहिरर्थविषयत्वमित्यसारम् ; वर्णादाविव उपादानेऽपि अध्यवसायप्रसङ्गात् । "
अष्टश०, अष्टसह ० पृ० ११८ ।
प्र० क० मा० १०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org