________________
सू० ११७] अचेतनज्ञानवादः न द्रष्टा यथा घटादिः, द्रष्टा चात्मा तस्मात्तद्विवर्त्तवानिति । प्रधानस्य ज्ञानवत्त्वे तु तस्यैव द्रष्टत्वानुषङ्गादात्मकल्पनानर्थक्यम् । 'चेतनोऽहम्' इत्यनुभवाच्चैतन्यस्वभावतावच्चोत्मनो 'ज्ञाताऽहम्' इत्यनुभवाद् ज्ञानवभावताप्यस्तु विशेषाभावात् । ज्ञानसंसर्गात् 'ज्ञाताऽहम्' इत्यात्मनि प्रतिभासो न पुननिस्वभावत्वादित्याय-५ समीक्षिताभिधानम् ; चैतन्यादिस्वभावस्याप्यभावप्रसङ्गात् । चैतन्यसंसर्गाद्धि चेतनो भोक्तृत्वसंसर्गाद्भोक्तौदासीन्यसंसर्गादुदासीनः शुद्धिसंसर्गाच्छुद्धो न तु स्वभावतः । प्रत्यक्षादिप्रमाणबाधोभयत्र । न खलु ज्ञानस्वभावताविकलोऽयं कदाचनाप्यर्नुभूयते, तद्विकलस्यानुभवविरोधात् ।
आत्मनो ज्ञानस्वभावत्वेऽनित्यत्वापत्तिः प्रधानेपि समाना । तत्परिणामस्य व्यक्तस्यानित्यत्वोपगमात् अदोषे तु, आत्मपरिणामस्यापि ज्ञानविशेषादेर नित्यत्वे को दोषः ? तस्यात्मनः कथञ्चिदव्यतिरेके भङ्गुरत्वप्रसङ्गः प्रधानेपि समानः । व्यक्ताव्यक्तयोरव्यतिरेकेपि व्यक्तमेवानित्यं परिणामत्वान्न पुनरव्यक्तं परिणामित्वा-१५ दित्यभ्युपगमे, अत एव ज्ञानात्मनोरव्यतिरेकेपि ज्ञानमेवानित्यमस्तु विशेषाभावात् । आत्मनोऽपरिणामित्वे तु प्रधानेपि तदस्तु। । १ ज्ञान । २ आशङ्कायाम् । ३ चैतन्यस्वभावतया अनुभवः, शानखभावताया अनुभव इत्यविशेषः। ४ कथं तथा हि। ५ नर्मल्य । ६ आत्मनश्चैतन्यादिस्वभावाभावे ज्ञानस्वभावाभावे च । ७ आत्मा। ८ आत्मा आत्मना। ९ ज्ञानमनित्यमिति बचनात् शानस्वरूपवत् । १० महदादेः। ११ शानादेः। १२ प्रधानस्यानित्यस्वापत्तिलक्षणोऽदोषः । १३ का। १४ अभेदे । १५ आत्मनः । १६ विनश्वरत्व। १७ महदादेः । १८ प्रधानस्य ।
OH.!
___ 1 "ननु ज्ञानसंसर्गाज्शाताऽहमित्यात्मनि प्रतिभासो न पुनर्ज्ञानस्वभावत्वादिति चेत; तदपि न्यायबाह्यम् ; चैतन्यादिस्वभावस्याप्येवमभावप्रसक्तेः । चतन्यसंसर्गाद्धि चेतनो भोक्तृत्वसंसर्गाद् भोक्ता औदासीन्यसंसर्गादुदासीनः शुद्धिसंसर्गात शुद्धो न तु स्वभावादित्यपि वक्तुं शक्यत एव।"
स्या० रखा. पृ० २३५ । 2 "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ।
सावयवं परतत्रं व्यक्तं विपरीतमत्यक्तम् ॥" सांख्यका० १० । - "प्रधानस्य चाऽनित्याद् व्यक्तादनान्तरभूतस्य नित्यतां प्रतीयन् पुरुषस्यापि शानादशाश्वतादनान्तरभूतस्य नित्यत्वमुपैतु सर्वथा विशेषाभावात् ।" आप्तप० ५० ४१ ।
"नचात्मनः अनित्यशानपरिणामात्मके भनित्यत्वापत्तिः, प्रधानेऽपि तत्प्रसङ्गात् । व्यक्ताऽव्यक्तयोरमेदेऽपि व्यक्तमेवाऽनित्यं परिणामत्वात् नत्वव्यक्तं परिणामित्वादित्यन्यत्रापि समानम् ।" न्यायकुमु० पृ० १९१ । स्या. रत्ना० पृ. २३५ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org