SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ९८ प्रमेयकमलमार्तण्डे [प्रथमपरि० वा? प्रथमपक्षे कथं सकलशून्यता वास्तवस्य तत्सद्भावावेदकप्रमाणस्य सद्भावात् ? द्वितीयपक्षे तु कथं तस्याः सिद्धिः प्रमेय सिद्धेः प्रमाणसिद्धिनिबन्धनत्वात् ? तदेवं सुनिश्चितासम्भवद्वाधकप्रमाणत्वात् प्रतीतिसिद्धमर्थव्यवसायात्मकत्वं ज्ञानस्याभ्युप५गन्तव्यम् , अन्यथाऽप्रामाणिकत्वप्रसङ्गः स्यात् ॥ छ । अथेदानीं प्राक् प्रतिज्ञातं स्वव्यवसायात्मकत्वं शानविशेषणं व्याचिंख्यासुः खोन्मुखतयेत्याद्याहखोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः ॥६॥ स्वस्य विज्ञानस्वरूपस्योन्मुखतोल्लेखिता तया इतीत्थंभावे भो । १० प्रतिभासनं संवेदनमनुभवनं स्वस्य प्रमाणत्वेनाभिप्रेतविज्ञानस्वरूपस्य सम्बन्धी व्यवसायः। खव्यवसायसमर्थनार्थमर्थव्यवसायं खेपरप्रसिद्धम् 'अर्थस्य' इत्यादिना दृष्टान्तीकरोति। अर्थस्येव तदुन्मुखतया ॥७॥ १५ इवशब्दो यथार्थे । यथाऽर्थस्य घटादेस्तदुन्मुखतया स्वोल्लेखितया प्रतिभासनं व्यवसायः तथा ज्ञानस्यापीति । स्यान्मतम्-न ज्ञानं स्वव्यवसायात्मकमचेतनत्वाद् घटादिवत् । तंदचेतनं प्रधानविवर्त्तत्वात्तद्वत् । यत्तु चेतनं तन्न प्रधानविवर्तः, यथात्मा; इत्यप्यसङ्गतम्। तस्यात्मविवर्त्तत्वेन प्रधानविवर्त्तत्वा२०सिद्धेः; तथाहि-ज्ञानविवर्त्तवानात्मा इष्टत्वात् । यस्तु न तथा स १ पूर्वोक्तप्रकारेण ज्ञानस्यार्थव्यवसायात्मकत्वे समर्थिते सति । २ व्याख्यातुमिच्छुः । ३ ग्राहकता। ४ तृतीया। ५ वादिप्रतिवादिप्रसिद्धम् । ६ अर्थ । ७ तव साङ्ख्यस्य । ८ ज्ञानम्। ९ ज्ञानस्य । १० पर्यायत्वेन। ११ जैनानुमानम् । १२ चेतयितृत्वात् । न्यायभा० ४।२।३०। प्रश० व्योमवती पृ० ५३२ । अष्टसह. पृ० ११५ । सन्मति० टी० ४५५ । स्या० म० का० १७ । रत्नाकरावता० पृ० ३२ । 1 “प्रकृतेर्महान् ततोऽहकारः...।" सांख्यका० २२ । "तस्याः प्रकृतेर्महान् उत्पद्यते प्रथमः कश्चित् । महान् बुद्धिः मतिः प्रशा संवित्तिः ख्यातिः चितिः स्मृतिरासुरी हरिः हरः हिरण्यगर्भ इति पर्यायाः ।" माठरवृत्ति, गौडपादभा० २२ । सांख्यसं० पृ० ६ । 2 "तथापरिणामवानात्मा दृष्ट (ष्ट्र) त्वात् । यस्तु ज्ञानपरिणामवान्न भवति नासौ द्रष्टा यथा लोष्टादिः, द्रष्टा चात्मा तस्माज्ज्ञानपरिणामवानिति।" स्या. रत्ना०पू०२३४॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy