________________
९८
प्रमेयकमलमार्तण्डे [प्रथमपरि० वा? प्रथमपक्षे कथं सकलशून्यता वास्तवस्य तत्सद्भावावेदकप्रमाणस्य सद्भावात् ? द्वितीयपक्षे तु कथं तस्याः सिद्धिः प्रमेय सिद्धेः प्रमाणसिद्धिनिबन्धनत्वात् ? तदेवं सुनिश्चितासम्भवद्वाधकप्रमाणत्वात् प्रतीतिसिद्धमर्थव्यवसायात्मकत्वं ज्ञानस्याभ्युप५गन्तव्यम् , अन्यथाऽप्रामाणिकत्वप्रसङ्गः स्यात् ॥ छ ।
अथेदानीं प्राक् प्रतिज्ञातं स्वव्यवसायात्मकत्वं शानविशेषणं व्याचिंख्यासुः खोन्मुखतयेत्याद्याहखोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः ॥६॥
स्वस्य विज्ञानस्वरूपस्योन्मुखतोल्लेखिता तया इतीत्थंभावे भो । १० प्रतिभासनं संवेदनमनुभवनं स्वस्य प्रमाणत्वेनाभिप्रेतविज्ञानस्वरूपस्य सम्बन्धी व्यवसायः।
खव्यवसायसमर्थनार्थमर्थव्यवसायं खेपरप्रसिद्धम् 'अर्थस्य' इत्यादिना दृष्टान्तीकरोति।
अर्थस्येव तदुन्मुखतया ॥७॥ १५ इवशब्दो यथार्थे । यथाऽर्थस्य घटादेस्तदुन्मुखतया स्वोल्लेखितया प्रतिभासनं व्यवसायः तथा ज्ञानस्यापीति ।
स्यान्मतम्-न ज्ञानं स्वव्यवसायात्मकमचेतनत्वाद् घटादिवत् । तंदचेतनं प्रधानविवर्त्तत्वात्तद्वत् । यत्तु चेतनं तन्न प्रधानविवर्तः, यथात्मा; इत्यप्यसङ्गतम्। तस्यात्मविवर्त्तत्वेन प्रधानविवर्त्तत्वा२०सिद्धेः; तथाहि-ज्ञानविवर्त्तवानात्मा इष्टत्वात् । यस्तु न तथा स
१ पूर्वोक्तप्रकारेण ज्ञानस्यार्थव्यवसायात्मकत्वे समर्थिते सति । २ व्याख्यातुमिच्छुः । ३ ग्राहकता। ४ तृतीया। ५ वादिप्रतिवादिप्रसिद्धम् । ६ अर्थ । ७ तव साङ्ख्यस्य । ८ ज्ञानम्। ९ ज्ञानस्य । १० पर्यायत्वेन। ११ जैनानुमानम् । १२ चेतयितृत्वात् ।
न्यायभा० ४।२।३०। प्रश० व्योमवती पृ० ५३२ । अष्टसह. पृ० ११५ । सन्मति० टी० ४५५ । स्या० म० का० १७ । रत्नाकरावता० पृ० ३२ । 1 “प्रकृतेर्महान् ततोऽहकारः...।" सांख्यका० २२ ।
"तस्याः प्रकृतेर्महान् उत्पद्यते प्रथमः कश्चित् । महान् बुद्धिः मतिः प्रशा संवित्तिः ख्यातिः चितिः स्मृतिरासुरी हरिः हरः हिरण्यगर्भ इति पर्यायाः ।"
माठरवृत्ति, गौडपादभा० २२ । सांख्यसं० पृ० ६ । 2 "तथापरिणामवानात्मा दृष्ट (ष्ट्र) त्वात् । यस्तु ज्ञानपरिणामवान्न भवति नासौ द्रष्टा यथा लोष्टादिः, द्रष्टा चात्मा तस्माज्ज्ञानपरिणामवानिति।" स्या. रत्ना०पू०२३४॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org