________________
सू० ११५] शून्याद्वैतवादः ___ इत्यभिधानात् । तत्कथं तदृष्टान्तावष्टम्मेन क्रमेणाप्येकस्यानेकाकारव्यापित्वं साध्येते ? तदप्यसमीचीनम् एवमतिसूक्ष्मेक्षिकया विचारयतो माध्यमिकस्य सकलशून्यतानुषङ्गात् । तथा हि-नीले प्रवृत्तं ज्ञानं पीतादौ न प्रवर्त्तते इति पीतादेः सन्तानान्तरवदभावः । पीतादौ च प्रवृत्तं तन्नीले न प्रवर्तते ५ इत्यस्याप्यभावस्तद्वत् । नीलकुवलयसूक्ष्मांशे च प्रवृत्तिमज् ज्ञानं नेतरांशनिरीक्षणे क्षममिति तदंशानामप्यभावः। संविदितांशस्य चावैशिष्टस्य स्वयमनंशस्याप्रतिभासनात्सर्वाभावः । नीलकुवलयादिसंवेदनस्य स्वयमनुभवात्सत्त्वे च अंन्यैरनुभवात्सन्तानान्तराणामपि तदस्तु। अथान्यैरनुभूयमानसंवेदनस्य सद्भावासिद्धेस्तेषा-१० मभावः, तर्हि तनिषेधासिद्धेस्तेषां सद्भावः किन्न स्यात् ? अथ तत्संवेदनस्य सद्भावासिद्धिरेवाभावसिद्धिः; नन्वेवं तनिषेधासिद्धिरेव तत्सद्भावसिद्धिरस्तु । भावाभावाभ्यां परसंवेदनसन्देहे चैकान्ततः सन्तानान्तरप्रतिषेधासिद्धेः । कथं च ग्रामारामादिप्रतिभासे प्रतीतिभूधरशिखरारूढे सकलशून्यताभ्युपगमः प्रेक्षा-१५ वतां युक्तः प्रतीतिबाधनात् ? दृष्टहानेरद्देष्टकल्पनायाश्चानुषङ्गात् । किञ्च, अखिलशून्यतायाः प्रमाणतः प्रसिद्धिः, प्रमाणमन्तरेण
१ बोधस्य । २ भवता जैनेन। ३ चित्रकशानस्य नानात्वसमर्थनप्रकारेण । ४ शानेन । ५ उद्धृतस्य । ६ नीलकुवलयस्य । ७ चित्र । ८ स्वेनैव । ९ नीलकुवल. यस्य । १० सन्तानान्तरैः । ११ स्वयम् । १२ भो माध्यमिक । १३ सन्तानान्तरैः। १४ स्वयम् । १५ नीलकुवलयसंवेदनवादिनं प्रति । १६ साधकप्रमाणाभावात् । १७ बाधकप्रमाणाभावात् । १८ भो माध्यमिक । १९ अन्यैरनुभूयमानसंवेदनस्य । २० माध्यमिको ब्रते-अन्यसंवेदनसद्भावे साधकं प्रमाणं नोपन्यस्तं भवद्भिः । अस्माभिश्च बाधकं प्रमाणं नोपन्यस्तमिति परसंवेदनसन्देहः ( इत्युक्ते जैनः प्राह ) । २१ ग्रामादि । २२ सकलशून्यत्वस्य ।
1 "नन्वेवं नीलवेदनस्यापि प्रतिपरमाणुभेदात् नीलाणुसंवेदनैः परस्परं भिन्नैर्भवितव्यं तत्र एकनीलपरमाणुसंवेदनस्याप्येवं वेद्यवेदकसंविदाकारभेदात् त्रितयेन भवि. तव्यम् । वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्यादिसंवेदनत्रयेण इति परापरवेदनत्रयकल्पनादनवस्थानान्न कचिदेकवेदनसिद्धिः संविदद्वैतविद्विषाम् ।"
____ अष्टसह० पृ० ७७ । न्यायकुमु० पृ० १३४ । 2 "प्रमाणानुपपत्त्युपपत्तिभ्याम् । न्यायसू० ४।२।३०। "एवं च सति सर्व नास्तीति नोपपद्यते । कस्मात् ? प्रमाणानुपपत्त्युपपत्तिभ्याम् , यदि सर्व नास्तीति प्रमाणमुपपद्यते; 'सर्व नास्ति' इत्येतद्वयाहन्यते। अथ प्रमाणं नोपपद्यते; सर्व नास्तीत्यस्य कथं सिद्धिः ? अथ प्रमाणमन्तरेण सिद्धिः, सर्वमस्ति इत्यस्य कथन्न सिद्धिः ?"
प्र. क. मा०९
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org