________________
९६
प्रमेयकमलमार्तण्डे [प्रथमपरि० मार्गोपदेशोपि व्यर्थों विनेयाऽसत्त्वात् । नापि ततः कश्चित्सौगती गतिं गन्तुमर्हति । सुगतसत्ताकालेऽन्यस्यानुत्पत्तेस्तत्कालश्चात्यन्तिक इति । बुद्ध्यन्तरपरिहारेण विवक्षितबुध्यैवानुभवश्वासिद्धः, नीलादीनां बुद्ध्यन्तरेणाप्यनुभवात् । ज्ञानरूपत्वात्तत्सिद्धौ चान्यो५न्याश्रयः-सिद्धे हि ज्ञानरूपत्वे नीलादीनां बुद्ध्यन्तरपरिहारेण विवक्षितबुद्ध्यैवानुभवः सिचेत्, तत्सिद्धौ च ज्ञानरूपत्वमिति। भेदेन विवेचनाभावमात्रमप्यसिद्धम्। बहिरन्तर्देशसम्बन्धित्वेन नीलतज्ज्ञानयोर्विवेचनप्रसिद्धः । एकस्याक्रमेणं नीलाधनेका
कारव्यापित्ववत् क्रमेणाप्यनेकसुखाद्याकारव्यापित्वसिद्धेः सिद्धः १० कथञ्चिदक्षणिको नीलाद्यनेकार्थव्यवस्थापकःप्रैमातेत्यद्वैताय दत्तो जलाञ्जलिः॥ छ॥ ननु चाक्रमेणाप्येकस्यानेकाकारव्यापित्वं नेष्यते। "किं स्यात्सी चित्रतैकस्यां न स्यात्तस्या मतावपि । यदीदं खयमर्थेभ्यो रोचते तत्र के वयम् ॥"
[प्रमाणवा० ३२२१०]
१ अन्योत्पत्तिरहिता (१) । २ संसारिणामेवोत्पत्तिरहितः (१) । ३ किञ्च । ४ एकस्य बोधस्य । ५ चित्राद्वैतवादिनः। ६ युगपत् । ७ ग्राहकः। ८ पुरुषः। ९ जैनं प्रति माध्यमिको ब्रूते। १० भावस्य । ११ परेण मया माध्यमिकेन । १२ मम दूषणं किं स्यात् । १३ चित्रत्वेनाभिप्रेतायां मतो एकस्यां सा चित्रता न स्यात्तदा किं स्यान्मम दूषणम् । १४ प्रसिद्धा। १५ चित्रत्वेनाभिप्रेतायां। १६ बुद्धौ। १७ चित्रत्वम् । १८ ज्ञानेभ्यः ।
1 "अशक्यविवेचनत्वं साधनमसिद्धमुक्तम्-नीलतवेदनयोः अशक्यविवेचनत्वासिद्धेः, अन्तर्बहिर्देशतया विवेकेन प्रतीतेः।" अष्टसह० पृ० २५४ ।
2 "अत्र देवेन्द्रव्याख्या-यदि नामकस्यां मतौ न सा चित्रता भावतः स्यात् । किं स्यात् को दोषः स्यात् । तथा च भावतश्चित्रया मत्या भावा अपि चित्रा सिध्यन्ति" तद्वदेव च सत्या भविष्यन्तीति प्रष्टुरभिप्रायः । शास्त्रकार आह-न स्यात्तस्यां मतावपि इति । व्याहतनेतत्-एका चित्रा च इति । एकत्वे हि सत्यनानारूपापि वस्तुतो नानाकारतया प्रत्यवभासते न पुनर्भावतस्ते तस्य आकाराः सन्तीति बलादेष्टव्यम् । एकत्वदानिप्रसंगात् । नहि नानात्वैकत्वयोः स्थितेरन्यः कश्चिदाश्रयोऽन्यत्र भाविकाम्यामाकारभेदाभेदाभ्याम् । तत्र यदि बुद्धिीवतो नानाकारैका चेष्यते तदा सकलं विश्वमप्येकं द्रव्यं स्यात्, तथाच सहोत्पत्त्यादिदोषः । तस्मान्नैकाऽनेकाकारा । किन्तु यदीदं स्वयमर्थानां रोचते अतद्रूपाणामपि सतां यदेतत्तादूप्येण प्रख्यानं तदेतद्वस्तुत एव स्थितं तत्त्वमिति । तत्र के वयं निषेद्धारः ? एवमस्तु इत्यनुमन्यत इति ।"
स्था० रला० पृ० १८०।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org