SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सू० ११५] चित्राद्वैतवादः - एतेन "चित्रप्रतिभासाप्येकैव बुद्धिर्बाह्यचित्रविलक्षणत्वात् , शक्यविवेचनं हि बाह्यं चित्रमशक्यविवेचनास्तु बुद्धीलादय आकाराः" इत्यादिना चित्राद्वैतमप्युपवर्णयन्नपाकृतः; अशक्यविवेचनत्वस्यासिद्धेः । तद्धि बुद्धरभिन्नत्वं वा, सहोत्पन्नानां नीलादीनां वुड्यन्तरपरिहारेण विवक्षितबुद्ध्यैवानुभवो वा, भेदेन ५ विवेचनाभावमात्रं वा प्रकारान्तरासम्भवात् ? तत्राद्यपक्षे साध्यसमो हेतुः; तथाहि-यदुक्तं भवति-'बुद्धेरभिन्ना नीलादयस्ततोऽभिन्नत्वात्' तदेवोक्तं भवति 'अशक्यविवेचनत्वात्' इति । द्वितीयपक्षेप्यनैकान्तिको हेतुः; सचराचरस्य जगतः सुगतज्ञानेन सहोत्पन्नस्य बुध्यन्तरपरिहारेण तज्ज्ञानस्यैव ग्राह्यस्य तेन सहै-१० कत्वाभावात् । एकत्वे वा संसारी सुगतः संसारिणो वा सर्वे सुगता भवेयुः, संसारेतररूपता चैकस्य ब्रह्मवादं समर्थयते । अथ सुगतसत्ताकालेऽन्यस्योत्पत्तिरेव नेष्यते तत्कथमयं दोषः ? नन्वेवं "प्रमाणभूताय" [प्रमाणसमु० ११] इत्यादिना केनासौ स्तूयते ? कथं चापराधीनोऽसौ येनोच्यते "तिष्ठन्त्येव पराधीना येषां च महती कृपा" [प्रमाणवा० २२१९९] इत्यादि । न खलु वन्ध्यासुताधीनः कश्चिद्भवितुमर्हति । १ शानाद्वै तनिराकरणपरेण ग्रन्थेन । २ नानाप्रकार। ३ पूर्ववादे ज्ञानगतानां नीलायाकाराणां भ्रान्तत्वम् । अत्र (चित्राद्वैतवादे) ज्ञानगताकाराणां सत्यत्वम् । ४ विसदृश । ५ असिद्धो हेतुरित्युक्ते सत्याह । ६ घटपटस्तम्भादि । ७ इयं बुद्धिरमी नीलादय आकारा इति विभागः कत्तुं न शक्यते। ८ योगाचारः। ९ नीलादीनाम् । १० बुद्ध्या सह प्रादुर्भूतानाम् । ११ स्वरूपम्। १२ साध्येन समं हेतुं दर्शयति । १३ साध्यमेवोक्तं भवति । १४ साध्यमेवोक्तं भवति। १५ नान्यज्ञानस्य । १६ जगदभिन्नत्वात् । १७ सुगताभिन्नत्वात्सुगतस्वरूपवत् । १८ असंसार । १९ सुगतस्य । २० परेण मया। २१ पुरुषेण । २२ भवता । २३ सुगताः। २४ (निर्वाणोपि(णेऽपि ) परप्राप्तेः (परे प्राप्ते) कृपार्टीकृतचेतस इत्यस्योत्तरमर्द्ध ज्ञेयम् ) । २५ ना । ". : 1 "किमिदमशक्यविवेचनत्वं नाम-ज्ञानाभिन्नत्वम् , सहोत्पन्नानां नीलादीनां ज्ञानान्तरपरिहारेण तज्शानेनैवानुभवः, भेदेन विवेचनाभावमानं वा ?" . न्यायकुमु० पृ० १२७ । "अकल्पकल्पासङ्खयेयभावनापरिवर्द्धिताः। तिष्ठन्त्येव पराधीना येषां तु महती कृपा ॥" अभिसमयालंकारालोक पृ० १३४ । "तदुक्तम्-निर्वाणेऽपि परे प्राप्ते कृपाद्रीकृतचेतसाम् ।। ..... .. तिष्ठन्त्येव पराधीना येषां तु महती कृपा ॥" न्यायकुमु० पृ० ५। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy