________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० व्यक्तापेक्षया परिणामि प्रधानं न शैक्यपेक्षया सर्वदा स्थास्नुत्वादित्यभिधाने तु आत्मापि तथास्तु सर्वथा विशेषाभावात्, अपरिणामिनोऽर्थक्रियाकारित्वासम्भवेनाग्रेऽसत्त्वप्रतिपादनाच्च ।
खसंवेदन प्रत्यक्षाविषयत्वे चास्याः प्रतिनियतार्थव्यवस्थापकत्वं ५न स्यात् । तद्यवस्थापकत्वं हि तदनुभवनम्, तत्कथं बुद्धरप्रत्यक्षत्वे घटेत ? आत्मान्तरवुद्धितोपि तत्प्रसङ्गात्, न चैवम् । ततो बुद्धिः खव्यवसायात्मिका कारणान्तरनिरपेक्षतयाऽर्थव्यवस्थापकत्वात्, यत्पुनः स्वव्यवसायात्मकं न भवति न तत्त
थाऽर्थव्यवस्थापकं यथाऽऽदर्शादीति । अर्थव्यवस्थितौ तस्याः १० पुरुषभोगापेक्षत्वात् “बुद्ध्यध्यर्वसितमर्थ पुरुषश्चेतैयते" [ ]
इत्यभिधानात् । ततोऽसिद्धो हेतुरित्यपि धैद्धामात्रम्; भेदेनानयोरनुपलम्भात् । एकमेव ह्यनुभवसिद्धं संविद्रूपं हर्षविषादाद्यनेकाकारं विषयव्यवस्थापकमनुभूयते, तस्यैवैते 'चैतन्यं बुद्धिरध्यव
सायो ज्ञानम्' इति पर्यायाः। न च शब्दभेदमात्राद्वास्तवोऽर्थभे१५दोऽतिप्रैसङ्गीत्।
संसर्गविशेषवशाद्विलब्धो बुद्धिचैतन्ययोः संन्तमपि भेद १ महदादि, द्वितीयपक्षे सुखादि। २ सूक्ष्मस्वभावा द्वितीयपक्षे साम्यावस्था शक्तिः । ३ परेण । ४ व्यक्त्यपेक्षया परिणाम्यस्तु । ५ व्यत्यपेक्षया परिणाम्यस्तु । ६ किञ्च । ७ बुद्धेः । ८ अन्यथा। ९ पुरुषान्तर । १० वस्य । ११ व्यक्तिलक्षणाया बुद्धेः बुद्धिलक्षणात्कारणादपरं कारणान्तरमिन्द्रियम् । १२ कारणनिरपेक्षतया। १३ अनुभवः स एव कारणम् । १४ बुद्धिप्रतिविम्बितम् । १५ अनुभवति । १६ कारणान्तरसापेक्षतया। १७ बुद्धेः । १८ भो साङ्ख्य। १९ बुद्धिपुरुषयोः । २० बुध्यनुभवयोः। २१ अन्यथा। २२ इन्द्रः शक्र इत्यादौ स स्यात् । २३ सम्बन्ध । २४ वञ्चितो नरः। २५ चैतन्यं पुरुषस्य रूपम् । २६ विद्यमानम् । 1 "एकमेवेदं संविद्रूपं हर्षविषादाधनेकाकारविवर्त पश्यामः।"
न्यायमं० पृ० ७४ । न्यायकुमु० पृ० १९३ । "बुद्धिरुपलब्धिनिमित्यनर्थान्तरम् । न्यायसू० १६०१५ प्रश. भा० पृ०१७१॥
"बुद्धिरध्यवसायो हि संवित्संवेदनं तथा । संवित्तिश्चेतना चेति सर्व चैतन्यवाचकम् ॥” तत्वसं० का० ३०३।
सन्मति० टी० पृ० ३०० । स्या. रत्ना० पृ० २३८ । ___"तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २०॥ यस्माच्चेतनस्वभावः पुरुषः तस्मात् तत्संयोगादचेतनं महदादि लिङ्गम् अध्यवसायाभिमानसङ्कल्पालोचनादिषु वृत्तिषु चेतनावत् प्रवर्तते । को दृष्टान्तः ? तद्यथा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org