________________
९२
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
प्रत्येतुं शक्यः, अन्यथा सन्तानान्तरस्याप्रतिपन्नस्य स्वप्रतिभासायोगस्यापि प्रसिद्धेस्तस्याप्यभावः । तथा च तत्प्रतिपादनार्थ प्रकृतहेतूपन्यासो व्यर्थः । अथ सन्तानान्तरं स्वस्य स्वप्रतिभासयोग स्वयमेव प्रतिपद्यते, जडस्यापि प्रतिभासयोगं तदेव प्रत्येतीति -५ किन्नेष्यते ? प्रतीतेरुभयत्रापि समानत्वात् । अथाऽप्रतिपन्नेपि जडे विचारात्तदयोगः, ननु तेनाप्यस्याविषयीकरणे स एव दोषो विचारस्तत्र न प्रवर्त्तते । 'तत एव वात्र तदयोगप्रतिपत्तिः' इति विषयीकरणे वा विचारवत्प्रत्यक्षादिनाप्यस्यें विषयीकरणात्प्रतिभासायोगोऽसिद्धः । न च प्रतिपन्नस्य जडस्य प्रतिभासायोग१० प्रतिपत्तिरित्यभिधातव्यम्; 'जडप्रतीतिः, प्रतिभासायोगश्चास्य' इत्यन्योन्यविरोधात् ।
साध्यविकलञ्चायं दृष्टान्तः, नैयायिकादीनां सुखादौ ज्ञानरूपत्वासिद्धेः । अस्मादेव हेतोस्तत्रापि ज्ञानरूपतासिद्धी दृष्टन्तान्तरं मृग्यम् । तत्राप्येतच्चोद्ये तदन्तरान्वेषणमित्यनवस्था । नीलादेई१५ ष्टान्तत्वे चान्योऽन्याश्रयः- सुखादौ शानरूपतासिद्धौ नीलादेस्तन्निदर्शनात्तद्रूपतासिद्धिः, तस्यां च तन्निदर्शनात्सुखादेस्तद्रूपतासिद्धिरिति । न च सुखादौ दृष्टान्तमन्तरेणापि तत्सिद्धिः; नीलादावपि तथैव तदापत्तेस्तत्र दृष्टान्तवचनमनर्थक मिति निग्रहाय जायेत ।
१८
अर्थ सुखादेरज्ञानत्वे- ततः पीडानुग्रहाँभावो भवेत् । ननु २० सुखाद्येव पीडानुग्रहौ, ततो भिन्नौ वा ? प्रथमपक्षे - के ज्ञानत्वेन व्याप्तौ तौ प्रतिपन्नौ; यतस्तदभावे न स्याताम् । व्यापकाभावे हि
५ प्रतिभास
१० सौगतस्य
१२ प्रतिभासायोगः ।
१ शिष्यादिकम् । २ सौगतैः । ३ स्वरूपेण । ४ बोधनार्थं । मानत्वात् । ६ ता । ७ संबन्धं । ८ जानाति । ९ परेण । तव । ११ सन्तानान्तरप्रतिभासयोगे जडप्रतिभासयोगे च । १३ विचारात् । १४ जडस्य विचारेण । १५ अनुमान । १६ जडस्य । १७ द्वितीयविकल्पस्य । १८ असम्भव । १९ परेण । २० ज्ञान । २१ सुखादिः । २२ प्रतिभासमानत्वादित्यस्मात् । २३ सुखादिधर्मी शानं भवतीति साध्यं प्रतिभास-मानत्वात् । दृष्टान्तेन भाव्यं ह्यत्र । २४ यदवभासते तज्ज्ञानमित्यत्रानुमाने । २५ दु:ख। २६ सुखाद्दुःखात् । २७ उपकार । २८ अन्वयदृष्टान्ते । २९ परेण ।
1 "नच नैयायिकादीन् प्रति सुखादेर्ज्ञानता सिद्धेति साध्यविकलता दृष्टान्तस्य ...।" संमति० टी० पृ० ४८४ । स्या० रत्ना० पृ० १६७ ।
2 “अथ सुखादेरज्ञानत्वे ततोऽनुग्रहाद्यभावो भवेत्, ननु किं सुखमेवाऽनुग्रहः, उत ततो भिन्नम् ?..."
संगति० टी० पृ० ४८५ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org