________________
सू० ११५] विज्ञानाद्वैतवादः नियमेन व्याप्याभावो भवति । अन्यथा प्राणादेः सात्मकत्वेन क्वैचियाप्त्यसिद्धावप्यात्माऽभावे सन भवेत् ततः केवलव्यतिरेकिहेत्वर्गमकत्वप्रदर्शनमयुक्तम् । तन्नाद्यपंक्षः । नापि द्वितीयो यतो यदि नाम सुखदुःखयोनित्वाभावः, अर्थान्तरभूतानुग्रहाद्यभावे किमायातम् ?' न खलु यज्ञदत्तस्य गौरत्वाभावे देवदत्ताभावो५. दृष्टः । ननु सुखादी जैनस्य प्रकाशमानत्वं ज्ञानरूपतया व्याप्तं प्रसिद्धमेवेत्यप्यसारम् । यतः स्वतः प्रकाशमानत्वं ज्ञानरूपतया व्याप्तं यत्तस्यात्र प्रसिद्धं तन्नीलांद्यये(2) नास्तीत्यसिद्धो हेतुः। यत्तु परतः प्रकाशमानत्वं तत्र प्रसिद्धं तन्न ज्ञानरूपतया व्याप्तम् । प्रकाशमानत्वमात्रं च नीलादावुपलभ्यमानं जडत्वेनाविरुद्धत्वं १० नैकान्ततो ज्ञानरूपतां प्रसाधयेत्।
यदप्युक्तम्-तैमिरिकस्य द्विचन्द्रादिवत्कादिकमविद्यमानमपि प्रतिभातीति, तदपि खमनोरथमात्रम् ; अंत्र बोधकप्रमाणाभावात् । द्विचन्द्रादौ हि विपरीतार्थख्यापकस्य बाधकप्रमाणस्य
१ज्ञानत्वेन पीडानुग्रहयोप्स्यसिद्धावपि ज्ञानाभावे पीडानुग्रहयोरभावो याद । २ उच्छासादेः। ३ अन्वयदृष्टान्ते । ४ घटादौ। ५ सौगतस्य। ६ श्रेयान् । ७ तर्हि। ८ पीडा। ९ दूषणम् । १० दृष्टान्ते। ११ दार्शन्तिके। १२ तृतीयो विकल्पः । १३ शायमानं। १४ सर्वथा। १५ परेण । १६ पुरुषस्य । १७ सौगत । १८ घटमहमात्मना वेनीति कर्नादौ । १९ नेदं कादिकमिति । २० एकचन्द्र ।
1"सम्प्रति द्वयोरेव सन्देहे अनैकान्तिकत्वं वक्तुमाह अनयोरेव अन्वय-व्यतिरेकरूपयोः सन्देहात् संशयहेतुः । उदाहरणम्
'सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति ।' .... (पृ० १०५) कस्मादनैकान्तिकः ?
'साध्येतरयोरतो निश्चयाभावात्' साध्यस्य इतरस्य च विरुद्धस्य सन्दिग्धान्वयव्यतिरेकान्निश्चयाभावात् । सपक्षविपक्षयोहि सपदत्त्व (सदसत्त्व ) सन्देहेन साध्यस्य न विरुद्धस्य सिद्धिः । नच सात्मकानात्मकाभ्यां च परः प्रकारः संभवति । ततः प्राणादिमत्वात् धर्मिणि जीवच्छरीरे संशयः आत्मभावाभावयोरित्यनैकान्तिकः प्राणादिरिति ।"
न्यायबिन्दु पृ० ११० । 2 "यच्चेदम् 'नीलमहं वेमि' इति शानं तैमिरिकस्य द्विचन्द्रदर्शनवद्धान्तमिति; असदेतत् ; अबाध्यमानत्वात् । तथाहि-तैमिरिकस्य तिमिरविनाशादूर्ध्वमेकत्वशाने सति द्विचन्द्रदर्शनं भ्रान्तमिति प्रतिभाति अनुत्पन्नतिमिरस्यान्यस्य, नैवं नीलमित्यादिशाने विपरीतार्थग्राहकप्रमाणानुपपत्तेमिथ्यात्वमिति ।"
प्रश० व्योमवती पृ० ५३० ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org